________________ 294 सटीकाद्वैतदीपिकायाम् परमते कथमपि नोपादानलक्षणं निर्वहति / स्वमते उपादानलक्षणोक्तिः ____ अस्मन्मते तु यदभिन्न कार्यमुत्पद्यते तत्कारणमुपादानम् / अभेदश्च पृथकसत्ताशून्यत्वम् / तच्चाविद्याब्रह्मणोः समानम् / तथाहि अविद्यातावद्भूतभौतिकाकारेण परिणमते। तत्र शुद्धब्रह्मगता भूताकारेण तदवच्छिन्नब्रह्मगता तत्तद्भौतिकाकारण। न च जगतोऽविद्यापरिणामत्वे प्रमाणाभावः। जगदविद्यापरिणामः कार्यत्वात् शुक्तिरूप्यवत् / न च बाधितत्वमुपाधिः, साधनव्यापकत्वात्, जगज्जडोपादानकं कार्यत्वात् संमतवत्, तच्चकं लाघवात् / तदपि परिशेषादज्ञानमिति वक्ष्यते। न चान्वयव्यतिरेकसिद्धमृदाधुपादानेऽतिरिक्तोपदाने गौरवं, उक्तानुमानात्तत्सिद्धेः। अविद्यायामनुमानान्तरम् अथवा तन्त्वनुपादानं कार्य पटोपादानजडोपादानकं कार्यत्वात पटवत् / तच्च जडं लाघवादेकं सिद्धयति / तदेवाज्ञानं, तदन्यस्यासंभवात् / सर्वस्यापि सत्वाद्रूपान्तरत्वमित्याशंक्याह-भेदाभेदयोरिति / एवं पराभिमतोपादानलक्षणं निराकृत्य स्वाभिमतलक्षणमाह- अस्मन्मत इति / कार्यस्य कारणादभेदे कथं कार्यकारणभाव इत्याशङ्क्याह--अभेदश्चेति / कार्यस्यानिर्वचनीयत्वेन कारणसत्तातिरेकेण स्वतः सत्ताभावेप्यनिर्वचनीयभेदात् कार्यकारणभावोपपत्तिरिति भावः / अस्य च नाव्याप्त्यादिरित्याह-तच्चेति / एकेनैवोपादानेन जगदुत्पत्तेः किमर्थमविद्याब्रह्मणोरुभयोरुपादानतेत्याशक्याविद्यायाः तावदनिर्वचनीयजगदाकारपरिणामितयोपादानत्वं साधयतिअविद्येति / भूतभौतिकानामविद्यापरिणाममित्वे भौतिकानां कथं भूतपारतन्त्र्यमित्याशक्य तत्र विशेषमाह--तत्रेति / तदवच्छिन्नेति / भुतादेरविद्यापरिणामस्वे मानाभावान्नोक्तविभाग इत्यत आह-न चेति, साधनव्यापकत्वादिति / जगतोऽपि नेह नानास्ति किञ्च नेत्यादिश्रुतिबाधितत्वादिति भावः / दृष्टान्तोऽसंप्रतिपन्न इति मन्वानं प्रत्यनुमानान्तरमाह-जगदिति / परमाण्वाद्युपादानत्वेनार्थान्तरतामाराङ्याह-तच्चेति / मृदाधुपादानेनैव सर्वकार्यसिद्धरुपपत्तेस्तदतिरिक्तमायोपादानत्वकल्पने गौरवमित्याशक्य कार्यत्वहेतुना सर्गाद्यकार्याणां मायोपादानत्वसिद्धेर्लाघवेन कार्यमात्रस्यैव तदुपादानत्वसंभवात् परमते घटादावनेककर्तृकत्ववदनेकोपादानत्वेऽपि न दोष इत्यभिप्रेत्याह-न चेत्यादिना / अनुमानान्तरमाह--अथवेति / तन्तूपादानतयाऽर्थान्तरवारणाय तन्त्वनुपादानमित्युक्तम् / ब्रह्मोपादानतयाऽर्थान्तरवार