________________ तृतीयः परिछेच्दः 293 अथ सर्वत्रापि स्वरूपमेव संबन्धोऽस्त्विति चेत्, काममस्तु नास्माकं काचित् क्षतिः / तथापि न विकारवत्कारणत्वमुपादानत्वम् / अस्तु तर्हि समवायोऽनेक इति चेत्, न तावत्स नित्यः। संबन्धिद्वयोत्पत्तेः पूर्व संबन्धस्थित्ययोगात् / संबन्धस्य संबन्ध्याश्रयत्वनियमात् / अनित्यत्वे च समवायस्याप्युपादानं तत्समवायो चेत्, समवायानन्त्यात एकमपि कार्य न सिद्धयेत् / संबन्ध्युत्पत्तेः पूर्व संबन्धानुत्पत्तेश्च समवायान्तरानङ्गीकारे च तदुपादाने लक्षणाव्याप्तिः / न च समवायो निरुपादान इति वाच्यम; भावकार्यस्य सोपादानत्वनियमात् / निरुपादानात् सकारणकत्वव्यावृत्तः कार्यत्वायोगाच्च / नापि परिणामिस्वमुपादानत्वम् / तद्धि तात्विकरूपान्तरामेदः / तन्न, अभेदे रूपान्तरत्वव्याघातात रूपान्तरत्वे चाभेदव्याघातात् भेदाभेदयोश्च निरसिष्यमाणत्वात् / तस्मात संबन्धाभावे तत्र वृत्त्ययोगात् संबन्धो घाच्यः / सोऽपि संयोगश्चेदनवस्थापात इति समवाय एव स इति नेत्याह-संयोगस्य / स्वरूपसंबन्धस्य कुत्रचिद्विशिष्टप्रत्ययालम्बनत्वे सर्वत्रापि तत एव तदुपपत्तेः संयोगोऽपि न सिद्धयेदिति शङ्कते-अयेति / अद्वैतवादिनः स्वरूप. संबन्धातिरिक्तसंयोगाभावे न काचिदनुपपत्तिरित्याह-काममिति / परेणापि सर्वत्र स्वरूपसंबन्धाभ्युपगमे तदुक्तमुपादानलक्षणमयुक्तं निमित्तकारणेऽपि गतत्वादित्यभिप्रेत्याह-तथापीति / समवायस्यानेकत्वान्न घटसमवायो दण्डेऽस्ति / अत उपादानलक्षणे नातिव्याप्तिरिति गुरुमतानुवर्ती शङ्कते-अस्त्विति / किमस्मिन् मते तन्तुपटसमवायोऽनादिर्जन्यो वा ? नाद्य इत्याह-न तावदिति / न च संबन्ध्यभावेऽपि घटत्वादिवत्समवायोऽपि काले वर्ततामिति वाच्यम् / तत्र रानाभावात् / समवायानेकत्वे तन्तुषु पटसंबन्ध उत्पन्न इति प्रतीतेः समवायविषयत्वे धिकाभावाच्चेति भावः। द्वितीये समवायस्याप्युपादानमस्ति न वा ? आये तदुपादानं तत्समवायवन्न वा? आद्ये दोषमाह- अनित्यत्व इति / किञ्च तन्तुषु पटसमवायोत्पत्त्यनन्तरं तदुपादानपटोत्पत्तिः तदुत्पत्तौ च तत्समवायोत्पत्तिरितीतरेतराश्रय इत्यभिप्रेत्याहसंबन्धीति / द्वितीये दोषमाह-समवायेति / समवायस्योपादानं नेति कल्पं दूषयतिन चेति / निरूपादानताकस्याकारणकत्व नियमात् कार्यतापि न स्यादित्याहनिरुपादानेति / विकारित्वं परिणामित्वमिति कल्पं दूषयति-नापीति / परिणामित्वलक्षणपोलोचनयाऽसंभवमाह-तद्धीत्यादिना / कार्यस्य कारणादभेदेऽपि भेदस्यापि