________________ 292 सटीकाद्वैतदीपिकायाम् वैशेषिकादिग्रन्थाभ्यासवतां भूतले घटसंयोगो नष्ट इति प्रतीतिरस्तीति चेत्, तहि प्राभाकरादिशास्त्राभ्यासवतां तन्तुषु पटसमवायो नष्ट इति प्रतीतिरपि समवायानित्यत्वे मानमस्ति / समवायस्य लाघवेनैकतया सिद्धौ तद्विनाशप्रत्ययः सम्बन्धिविनाशविषय इति चेत् / संयोगेऽपि तुल्यम् / न चैवं सम्बन्धिनोः सतोः संयोगानुपलब्धिर्न स्यादिति वाच्यम्; घटादावपि बुद्धयादिसमवायानुपलब्धिर्न स्यादिति तुल्यत्वात् / बुद्धिनिरूपितः समवायस्तत्र नास्तीति चेत्, तर्हि उद्धतघटे भूतले घटनिरूपितसंयोगाभावादनुपलब्धिरिति तुल्यम् / समवायस्यैकत्वात् घटेsप्यस्त्येव बुद्धि समवायः / बुद्धेस्तत्राभावात् घटो बुद्धिमानिति बुद्धिर्नास्तीति चेत् / तयुद्धतघटभूतलसंयोगेऽपि तुल्यम् / भवद्भिर्घटस्य ज्ञानाधारत्वाभ्युपगमाच्च / / किं च व्यवधानं संयुक्तधीप्रतिबन्धकम, लाघवेन संयोगस्यैकत्वे सिद्ध व्यवधानदशायां नियमेन संयोगाननुभवेन तस्य तत्प्रतिबन्धकत्वस्य प्रमाणसिद्धत्वात; न च गुणेषु संयोगानुपपत्तिः संख्यावत् संयोगस्याप्युपपत्तेः / संयोगस्य तु समवाय वतस्वरूपमेव सम्बन्धः। द्वितोयं शङ्कते-बैशेषिवे ति / परीक्षकानुभवस्य समवायनाशेऽपि सत्वात् तस्याप्यनेकत्वं स्यादित्याह-तीति / समवायैक्यस्य प्रामाणिकत्वात्तेषां तद्विनाशप्रत्ययोऽन्यविषय इति शङ्कते-समवायस्येति / संयोगस्यापि लाघवेनैक्यसिद्धेस्तन्नाशप्रत्ययोऽपि संबधिविषय इत्याह-- संयोगेऽपि / संयोगाभावबुद्धः संबन्ध्यभावविषयत्वे घटे भूतलादुद्धतेऽपि संबन्धिद्वयस्य सत्वात् तत्र कथं संयोगानुपलब्धिः कथं वा तदभावोपलब्धिरित्याशक्य तव मते आत्मनि बुद्ध्यादौ सत्यपि घटादौ तदनुपलब्धिवदिति परिहरति - न चैवभित्यादिना / घटादी समवायस्वरूपे सत्यपि बुद्धिविशिष्टसमवायाभावात् तदनुपलब्धिरित्याशंक्य तुल्य. मुत्तरमित्याह-बुद्धीत्यादिना / घटे बुद्धिसमवायसत्वेऽपि बुद्धेरेवाभावात् तद्विशिष्टप्रत्ययो नेत्याशंक्यैतदप्यन्यत्रापि तुल्यमित्याह-समवायस्येति / किं च परमते बुद्धर्घटेऽभावादित्येतदेवायुक्तं स्वरूपसंबन्धेन बुद्धघटादिवृत्तित्वाभ्युपगमादित्याह भवद्भिरति / एवमुद्धृतघटभूतलयोः सत्यपि संयोगे तदनुपलब्धि प्रतिबन्धापरं प्रत्युपपाद्य वस्तुतः तदुपपादकमाह-किं चेति / व्यवधानस्य संयोगधी प्रतिबन्धकत्वे न मानमस्तीत्यत आह-लाघवेनेति / न च संयोगाभावातिरिक्तं व्यवधानमेव नेति वाच्यम् / विभागस्यैव तत्त्वात् / स च क्वचित्क्रियाजन्यः क्वचिद्विभागजः क्वचिदन्यदिति भावः / गुणगुण्यादीनां कथं संयोगस्तस्य द्रव्यमात्रवृत्तित्वादित्यत आह-न च गुणेप्विति / ननु संयोगस्य स्वाश्रयेण