________________ तृतीयः परिच्छेदः 291 समवायनिरासः न च यत्र कार्यस्य समवायमात्र सम्बन्धः तत्कारणमुपादानम्; गुणादावतिप्रसक्तः तन्तुपटयोरप्याधाराधेयभावसत्वाच्च / संयोगातिरिक्तसमवाये प्रमाणा. भावाच्च / न चावयवावयव्यादिविशिष्ट प्रत्ययान्यथानुपपत्या तसिद्धिः। संयोगस्यव तबुद्धिविषयत्वात् / अक्लृप्तविषयत्वकल्पनात् क्लुप्तविषयस्यैव युक्तत्वात् / न चावयवावयव्यादिविशिष्टबुद्धः समवायविषयत्व एकविषयत्वमिति लाघवम् / इतरथानेकविषयत्वाद् गौरवमिति वाच्यम्; संयोगस्यापि भेदाभावात् / न चोत्पतिविनाशभ्यां तस्यानेकत्वमिति वाच्यम् / तपोरेवाभावात्।। न च घटसंयोगो विनष्ट इति प्रत्ययो मानमिति वाच्यम्; लौकिकानां घटो नष्ट इत्येव बुद्धदर्शनात् / भूतले घटसम्बन्धो नास्तीत्यनुभवस्तु समवायो नेत्यनुभवेन तुल्यः। कार्याश्रयत्वेनापि तल्लक्षणं विशेष्यत इत्याशझ्याह -तथापीति / चशब्दो घटादेरित्यत्र संबध्यते तेन तत्समवायः समुच्चीयते / भूतलादावतिव्याप्तिपरिहाराय विशेषणान्तरमाशङ्क्य परिहरति-न चेति / गुणादाविति / रूपाद्याधारकालादेरपि तदुपादानत्वप्रसङ्गादित्यर्थः / कालादेर्गुणादिनाऽधाराधेयसंवन्धस्यापि सत्त्वान्न समवायमात्रमित्याशंक्य तन्तुपटयोरपि स तुल्य इत्याह - तन्तुपटयोरिति / किं च समवायसद्भावे मानाभावेन तस्यैवासत्वात् तद् घटितं लक्षणमयुक्तमित्यभिप्रेत्याह-संयोगेति / ___ "इह तन्तुष पटो" "नील मुत्पलमि" त्यादिविशिष्टप्रत्ययः संवन्धविषयः विशिष्टप्रत्ययत्वात् कुण्डेबदरमिति प्रत्ययवत् विपक्षे च विशिष्टप्रत्ययानुपपत्तिरित्यनुमानमेव तत्र मानमित्याशंक्यार्थान्तरत्वेन दूषयति - न चेति / संयोगानामजन्तत्वेनावयवावयव्यादिविशिष्टप्रत्ययानां तद्विषयत्वे गौरवं तदतिरिक्तसमवायभेदे मानाभावात् तद्विषयत्वे लाघवमिति समवायविषयत्वमेव युक्तमित्याशक्य संयोगभेदेऽपि मानाभावात् सोऽपि सर्वत्रक एवेत्याह--न चेत्यादिना / क्रियया पूर्वसंयोगनाशादुत्तरसंयोगोत्पत्तेः तदनेकत्वमावश्यकमित्याशंक्य हेत्वसिद्धया दूषयति-न चेति / संयोगनाशादेरनुभवसिद्धत्वात् कथमभाव इत्याशङ्क्याह-न चेति / संयोगो नष्ट इत्याद्यनुभवः किं लौकिकानां उत वैशेषिकमते व्युत्पन्नानाम् / नाद्य इत्याह-लौकिकानामिति / घटनाशानन्तरं मृदि तत्समवायो नेत्यनुभवो यथा संबन्धिनाशादिविषयस्तथायमपीत्यर्थः।