SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 290 सटीकाद्वैतदीपिकायाम् मित्तरक्तरक्तप्रतीतेरिवौपाधिकसमवायप्रतियोगिकतर्मिकभेदबुद्धरपि भ्रमत्वात् / एतेन घटनिरूपितसमवाये केवलसमवायभेदबुद्धर्धमत्बेऽपि रूपादिसमवायात् तबुद्धिः प्रमेति निरस्तम् / किं रूपादिनिरूपितः समवायः केवलसमवायादनन्यः / अन्यो वा ? आये घटसमवाये रूपसमवायाद् भेदानुपपत्तिः घटादिसमावायस्यापि समवायादनन्यत्वात् / द्वितीये पदार्थातिरेकप्रसङ्गः / रूपादिकं प्रतिघटादेरनुपादान. त्वप्रसङ्गश्च, तत्सम्बन्धस्यासमवायत्वात् घटरूपादिसमवायानामन्योन्यमिव केवल. समवायादप्यौपाधिको भेद इति चेस; न, रूपसम्बन्धो न भवतीतिवत् रूपसम्बन्धः समवायो न भवतीति बुद्धः प्रमात्वापातात, केवलसमवायप्रतियोगिकवास्तवभेदाभ्युपगमे तस्यासमवायत्वाच्च / नन्वेवमपि दण्डे घटो नास्तीति चेत् न तथापि भूतलादेरुपादानत्वप्रसङ्गात् तत्र घटादेविद्यमानत्वाच्च / किं भेदस्योपाधिजन्यत्वमौपाधिकत्वं तद् ज्ञाप्यत्वं वा ? नाद्यः भेदस्यानादितया जन्यत्वायोगादित्याह-न उपाधीति / द्वितीये उपाध्यधीनप्रतीतेभ्रमत्वनियमेन ततो दण्डघटसमवाययोन भेदसिद्धिरित्यभिप्रेत्याह----उपाधीति / दण्डघटसमवायस्य समवायतया घटसमवायादभेदेऽपि रूपसमवायतया भेदोऽस्तीति तद्रपेण भेदधीः प्रमैवेत्येतदपि वक्ष्यमाणविधया निरस्तमित्याह--एतेनेति / ' केवलसमवायाद्रूपादिसमवायस्याभेदो भेदो वेतिविकल्पयति---किभिति / आद्ये घटसमवायस्य रूपसमवायाभिन्नकेवलसमवायाद् भेदाभावेन ततोऽपि भेदो न स्यादित्याह ---आद्य इति / द्वितीये स किं भेद: स्वाभाविक औपाधिको वा ? आये रूपसमवायस्य समवायेऽनन्तर्भावाद् द्रव्यादिष्वनन्तर्भावाच्च पदार्थातिरेकापात इत्याह----द्वितीयइति / रूपनिरूपिसंम्बन्धस्यासमवायत्वे घटादेस्तत्समवायित्वाभावेन तदुपादानतापि न स्थादित्याह---रूपादिकमिति द्वितीयं शङ्कते--घटेति / रूपादिसमवायानामौपाधिकभेदबुद्धेः प्रत्यक्षत्ववत्तेषां केवलसमवायादपि भेदधीः प्रमा स्यादिति दूषयति-न रूपेति / / इष्टापत्तिमाशङ्कयाह-केवलेति / तस्येति / रूपादिसमवायस्यासमवात्वापातेन पदार्थातिरेकापात इति भावः। समवायस्यैकत्वेन दण्डे समवायसत्वेऽपि घटस्य तत्राभावाद् दण्डो न घटोपादानमिति शङ्कते-मन्विति / दण्डे घटाभावेऽपि कार्यसमवायाश्रयत्वरूपोपादानलक्षणस्य तत्रातिव्याप्तेरेवे त्यभिप्रत्याह-नेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy