SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेवः 289 त्वात्, मृदनुस्यूतघटादिवदिति विवरणानुमान न साधु / तव मते उपादनानुपपत्ते. रुक्तत्वात्, सत्प्रकृतिकत्वस्य मन्मतेऽपि सत्वात् / खण्डो गौर्मुण्डो गौरिति गोस्वभावानुरक्तखण्डादौ व्यभिचारात् / ब्रह्म न द्रव्योपादानं चेतनत्वात चैत्रवत, जगन्न चेतनप्रकृतिकं तत्स्वभावाननुरक्तत्वात् / यत्स्वभावाननुरक्तं न तत् प्रकृतिकं यथा घटस्वभावाननुरक्तः पटो न घटोपादान इत्यादिना सत्प्रतिपक्षत्त्वाच्चेति / माध्वोक्तयुतोनां खण्डनं ब्रह्मणो जगदुपादान चव्यवस्थापनं च / अत्रोच्यते / यदुक्तं विकारवत्कारणत्वमुपादानत्वमिति / तन्नतावद्विकारसमवायित्वम्, यत्किञ्चिद्विकारसमवायित्वस्य निमित्तप्ताधारणत्वात् / तद्विकारसमवायित्वस्याप्येकसमवायवादे तत्र सत्वात् / घटाद्यवच्छिन्नः समवायो दण्डादौ नास्तीति चेत्, स किं दण्डवृत्तिसमवायादनन्यः, किं वाऽन्यः। __ आये न तत्र तदभावः। तदभिन्नस्य तत्र सत्वे तदभावायोगात् / द्वितीयः। समवायस्यैकत्वभङ्गप्रसङ्गात् / घदादिविशिष्टत्वाकारेणान्य इतिचेत् न, विशेष्याभेदवतिविशिष्टभेदबुद्धविशेषणभेदविषयत्वाङ्गीकारविरोधात् / एकस्मिन्नप्यौपाधिकभेदोऽस्तीति चेत् न, उपाधिजन्यस्य भेदस्याभावात् / उपाधिनि भूतानां सद्वस्तु प्रकृतिकत्वे सत्वापत्तेरुक्तत्वात् प्रतिकूलतर्कपराहमिदमित्यभिप्रेत्याह--तव मत इति / परमतेऽपि भूतोपादानस्य प्रकृत्यादेः सत्वाभ्युपगमात् सिद्धसाधनं चेत्याहसत्प्रकृतिकत्वस्येति / किं चात्र यो विकारो यत्स्वभावानुरक्तः स तत्प्रकृतिकः सामान्येन व्याप्तिर्वाच्या। तथा च व्यभिचार इत्यभिप्रेत्याह-खण्ड इति / प्रतिपक्षपराहतिप्याह-ब्रह्मेति / स्वाभिमतमुपादानलक्षणं निरूपयितुं तावत् परोक्तमनुवदति निराकर्तुम्-- यदुक्तमिति / किं विकारवत्वं, विकारसमवायवत्वं, परिणामित्वं वा आद्यं प्रत्याह-- तन्न तावदिति / निमित्तसाधारणत्वादिति / दण्डादेरपि रूपत्वादिसमवायित्वात् घटाधुपादानत्वापात इति भावः / यद्यविकारसमवायि तत्तदुपादानमिति विवक्षायामप्येकसमवायवादे स दोषस्तदवस्थ इत्याह-तद्विकारेति / / दण्डादौ समवायमात्रसत्वेऽपि घटावच्छिन्नसमवायाभावान्न तत्समवायित्वमिति शंकते---घटेति / विकल्पा सहत्वान्नैतदिति दूषयति---स किमिति / / स्वरूपेणैकत्वेऽपि विशिष्टरूपेण भेदो न विरुद्ध इति शंकते-घटादीति / स विशेषणे हि विधिनिषेधौ विशेष्ये बाधे विशेषणमुपसंक्रामत इति पराभ्युपगमाद् घटादिविशेषणभेदोऽपि न समवायभेदसिद्धिरित्याह-न विशेष्येति / समवायप्रतियोगिकस्वारसिकभेदाभावेऽप्यौपाधिकभेदोऽस्तित्वति शङ्कतेएकस्मिन्नति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy