SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 288 सटीकाद्वैतदीपिकायाम् भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तंयन्तीत्यादिश्रुत्या ब्रह्मण्येव सृष्टिलयोक्तिः तत्र मानं निमित्त कार्यस्य लयाभावादिति युक्तम् / निमित्तोर्णनाभौ तन्तोर्लयदर्शनात् / ब्रह्मणोऽप्यूर्णनाभिवदेव संहर्तृत्वस्य “यथोर्णनाभिः सृजते गृह्णते चेत्यादिश्रुतिसिद्धत्वात् / न चोर्णनाभिरपि तन्तुपादानं, ऊर्णनाभिदेहगतधातुविशेषस्यैव तन्तूपादानत्वात् / केशादीन् जडोपादानान् प्रतिचेतनस्य निमित्तमात्रत्वात् / माप्येकमेवाद्वितीयमिति वस्त्वन्तरनिषेधादात्मन एवोपादानत्वम्, त्वन्मतेऽप्यविद्यादेः सत्त्वात् / नाप्येकविज्ञानातत सर्वविज्ञानानुपपत्तिरुपादानत्वे मानम् सादृश्यप्राधान्याभ्यामेव तदुपपत्तेः / नापि "सर्वं खल्बिदं ब्रह्म' इति सामानाधिकरण्यानुपपत्तिस्तत्र मानम् / “सर्व समाप्नोषि ततोऽसि सर्वः” इति स्मृत्यैव सर्वगतत्वपरतयैव व्याख्यातत्वात् / महाभूतानि सद्वस्तुप्रकृतिकानि, सत्स्वभावानुरक्तत्वे सति विविधविकार. कार्यस्य लयायोगादित्यण्ययुक्तम् / क्वचिन्निमित्तेऽपि लयदर्शनेन तदनुपपत्त्यभावादित्याह - नापीत्यादिना। घटादिलयाधारस्य मृदादेस्तदुपादानत्वदर्शनाद्ब्रह्मणोऽपि तल्लयाधारत्वात् तदुपादानत्वमित्याशङ्कय श्रुत्यैवोर्णनाभिदृष्टान्तेन लयाधारत्वोक्तेस्त. द्वदेव निमित्तत्तवेत्याह - ब्रह्मण इति / ऊर्णनाभेरपि तन्तुपादानत्वात् सृष्टिनिमित्तस्य लयाधारत्वे न दृष्टान्त इत्यत आह-न चेति / धातुविशेषस्येति / श्लेष्मधातोरित्यर्थः / ऊर्णनाभः स्वजन्यतन्तूनां च रूपभेदेनोपादानोपादेयभावानुपपत्तेस्तच्छरीरावच्छिन्न चेतनस्य च स्पर्शादिरहितत्वेन सुतरां तदुपादानत्वानुपपत्तेरिति भावः / “यथा सतः पुरुषात् केशलोमानि" इत्युत्तरवाक्येऽपि निमित्तमेवोदाहृतमित्यभिप्रेत्याह -केशादीनिति / सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति सृष्टेः पूर्वमात्मातिरिक्तस्य निषेधात्स एवोपादानमित्याशक्य तदाप्यविद्यातत्सम्बन्धादेरावश्यकत्वात् कार्यद्रव्यमात्रस्यैव निषेधाभिप्रायं तद्वचनमित्यभिप्रेत्याह-नापीत्यादिना / ब्रह्मजगतोरुपादानोपादेयभावेन तादात्म्याभावे "येनाश्रुतं श्रुतं भवतीत्यादिना ब्रह्मविज्ञानात् सर्वविज्ञानानुपपत्तिरित्यपि न; स्थालीस्थैकतण्डुलपरीक्षया तत्सादृश्यात् तत्रत्यंसर्वतण्डुलपाकज्ञानवत् प्रधाने राजनि दृष्टे तदमात्यादयो दृष्टप्राया इतिवद्वा तदुपपत्तेरित्याह-नाप्यतेति / सर्वस्य कार्यस्य' कारणीभूतब्रह्माभेदः श्रूयमाणस्तस्य तदुपादानत्वं विनानुपपन्नस्तत्र मानमित्यपि न, ब्रह्मणः सर्वात्मत्वश्रुतेविरुद्धत्वेनान्यपरतयैव स्मृत्यास्याऽऽख्यातत्वेन तस्य तदभेदाभावादित्याह-नापि सर्वमिति / / ब्रह्मोपादानत्वे श्रुतितदनुपपत्ती निराकृत्याऽनुमानमपि निराकरोतिमहाभूतानीति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy