SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 287 'यदेकमव्यक्तमनन्तरूपम्' इत्यादिश्रुतिसिद्धानन्तपदार्थप्रेरकानन्तरूपैर्बहुभवन सङ्कल्पमाह। न च स्वस्वानन्तरूपर्बहुभावं सङ्कल्प्येदं सर्वमसृजतेति प्रपञ्चसर्जनानुपपत्तिरिति वाच्यम्; नियामकरूपैर्बहुभावस्य नियम्यसपेक्षत्वात् नियम्यं सृष्ट्वा नियामकरूपैः प्रवेशोत्सुपपत्तेः अन्यथा मृष्टेः पूर्वमन्तःकरणाभावेन तद्विशिष्टाहमर्थाभावात् / उत्तमपुरुषानुपपत्तिश्च / एतेन 'तदक्षत बहुस्यां प्रजायेय' इत्येतदपि व्याख्यातम् / किञ्च तत्तेजोऽसृजतेति यत्तेजः प्रभृति सृज्यं तदात्मना हि त्वया बहुभावो वाच्यः, तेजःप्रभृति च चेतनं "तत्तेजः ऐक्षत तदपोऽसृजत ता आप ऐक्षन्त ता अन्नमसृजन्त तिस्रो देवता" इति ईक्षितृत्वस्रष्दत्वदेवतात्वानां श्रवणात् / न च चेतनं प्रत्युपादनता तवापीष्टा। एतेनासद्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानं स्वयमकुरुतेत्येतदपि व्याख्यातम् / 'तदात्मानं सृजाम्यहम् , संभवामि युगे युगे" इत्यादिवदुपपत्तेः / न हयत्रात्मानमाकाशाद्यात्मनाऽकुरुतेति श्रूयते। किञ्च परमते ततो वै सदजायतेति पूर्ववाक्येनैव सच्छब्दनिर्दिष्टप्रपञ्चस्य ब्रह्मण उत्पत्तेः सिद्धत्वात् तदात्मानमिति व्यर्थम् / नापि' सर्वाणि ह वा इमानि बहुभवनस्य संकल्पश्रुत्यर्थत्वेऽनन्तरं संकल्पित बहुभवनमनुक्त्वाऽर्सकल्पितजगत्सृष्ट्यभिधानमनुपपन्नमित्याशङ्कय संकल्पितप्रतियोगितया तदभिधानमिति परिहरति-न चेत्यादिना / संकल्पितश्रुतेः स्वाभिमतार्थमुपपाद्य सिद्धान्त्यभिमतार्थदोषमाह-अन्यथेति / / अस्मद्युत्तम इत्यहमनुभवालंबनार्थ एवोत्तमपुरुषस्मरणात् सृष्टेः पूर्वं तदभावात् "स्यां" प्रजायेयेति प्रयोगानुपपत्तिरित्यर्थः / अन्तःकरणोत्पत्तेः पूर्वं कामनाया असंभवात् अकामयतेत्यनुपपन्नमिति चार्थः। उक्तन्यायेन संकल्पश्रुत्यन्तरमपि नेयमित्याहएतेनेति / किञ्च तदैक्षत बहुस्यामित्येतदनन्तरं तेजोबन्नानां सृष्टिः श्रूयते तद्रूपेण च त्वया बहुभवनं वाच्यम्, तदनुपपन्नं ईक्षितृत्वादिभिस्तेषां चेतनत्वावधारणात् त्वयापि चेतनान् प्रति ब्रह्मण उपादानत्वानभ्युपगमादित्वाह -- किं चेत्यादिना / स्रष्टुरेव सृज्यात्मपरा श्रुतिरप्यन्तर्याभिभावेन तत्स्रष्टूविषयेत्याह-एतेनेति / अन्तर्यामिभावेनात्मनः सृज्यत्वं तदर्थ इत्यत्र स्मृतिसंवादमाह-तदात्मानमिति / सिद्धान्त्यभिमतार्थे न किञ्चित् प्रापकमित्यभिप्रेत्याह-न हीति / तदात्मानं स्वयमकुरुतेत्यत्राकाशादिसृष्टयभिधानेऽस्य वैय्ययं च स्यादित्यहकिञ्चेति / ब्रह्मणि जगतः सृष्टिलयाभिधायिनी श्रुतिस्तस्य तदुपादानत्वे मानमनुपादाने 37
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy