________________ 286 सटीकाद्वैतदीपिकायाम् ब्रह्मणः उपादानत्वाभावे श्रुतिविरोधाभावः नापि तत्र मानमस्ति। आत्मन आकाशः संभूत इति पंचमीश्रुतिर्नोपादानत्वे प्रमाणं, तस्या अनेकार्थत्वात् / अपादानार्थत्वेऽपि 'ध्रुवमपायेऽपाद नम्" इत्यपादानसंज्ञासंभवाच्च। जनिकर्तुः प्रकृतरित्यनेनापादानत्वसंज्ञायामपि वृत्तौ 'पुत्रात प्रमोदो जायत' इत्यस्याप्युदाहृतत्वात् / न चाकाशाद् वायुरित्युपादानपंचमीसाहचर्यादात्मन इत्युपादानपञ्चमीति वाच्यम्; आकाशादित्यादावपि निमितार्थ एव पंचमीविधानात् / सच्चत्यच्चाभवदिति च परमेश्वरस्य सत्वादिगुणाभिव्यक्तिपरा। सदादिभवनस्य जगत्सृष्टितदमुप्रवेशानन्तरभावित्वेन जगत्सृष्टित्वानुपपत्तेः। अन्यथाऽभवदित्युक्तिविरोधाच्च, न हि शुक्तीरूप्यमभवदित्युच्यते। मुर्तामूर्तप्रपञ्चस्य सत्त्यत्पदाभ्यामेवोक्तत्वात् निरुक्तं चानिरुक्तं चेत्यादिवाक्यशेषस्थनिरुक्तादिपदवैययं च। "सोऽकामयत बहुस्याम्" इति तु परमेश्वरस्याजायमानो बहुधा विजायते मानाभावादपि न ब्रह्मोपादानमित्याह-नापीति / तत्र संभावितश्रुतीरतावदन्यथयति-आत्मन इति / अब दानार्थत्वेऽपीति / अपगमावधित्वेऽपीत्यर्थः। जनिकर्तुरिति सूत्रोक्तापादनसंज्ञाधीनेयं च पञ्चमी किं न स्यादित्यत आह--जनिकर्तुरिति / संज्ञायामपि पञ्चमी नोपादानत्वे मानमिति शेषः / तत्र हेतुमाह-वृत्ताविति / पितुः प्रमोदनिमित्त स्याप्येतत्सूत्रप्राप्तपञ्चभ्यर्थत्वेनोदाहृतत्वादित्यर्थः / शृङ्गाच्छरो जायत इत्यादेरप्युदाहृतत्वात् आकाशाद्वायुर्वायोरग्निः अग्नेराप इत्युपादानपञ्चमोप्रायपाठात्मन इति पञ्चम्युपादानार्थेवेत्याशङ्कयाह-न चाकाशादिति / आकाशादेविजातीयद्रव्यं प्रत्यनुपादानत्वात् तत्रापि निमित्तार्थव पञ्चमीत्यर्थः। सच्चरयच्चाभवदिति ब्रह्मणोमूर्तामूर्तात्मकरूपान्तरापत्त्यभिधानात् तस्य तदुपादानत्वसिद्धिरित्याशंक्य तदप्यन्यथति-न्तरभावित्वेनेति / इद सर्वमसृजत यदिदं किञ्च तत्सृष्ट्वा तदेवानुपाविशत् तदनु प्रविश्य सच्चत्यच्चाभवदि"ति जगत्सृष्ट्याद्यनंतरसदादिभवनस्य पश्चात्तनत्त्वेन जगत्सृष्टेस्तदर्थत्वायोगादित्यर्थः / ब्रह्मणो जगद्रूपेण विवर्तपक्षे दोषान्तरमाह--अन्यथेति / सर्वकार्यस्य मर्तामूर्तात्मकत्वात् सच्चत्यच्चाभवदिति तदुत्पत्याद्यभिधानेऽत्रैव सर्वकार्योत्पत्तिसिद्धेरुत्तरवाक्यवैय्यर्थ्यापाताच्चेत्याह-मूर्तति / ईश्वरस्य नानाकार्यरूपापत्त्यभावे कथं तस्य बहुभवनसंङ्कल्पश्रुतिरित्याशङ्कय साप्यन्तर्यामिरूपेण बहुभवनपरा न जगद्रूपेणेत्याह-सोऽकामयतेति / अन्तर्यामिरूपेण