SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ 285 तृतीयः परिछेच्दः नत्वस्य तदधिष्ठानशुक्त्यादावुपादानत्वस्य चाव्यवहारात् / पारिभाषिकोपादानत्वस्यानुपादानत्वे पर्यवसानात् / एतेनासत्यरूपान्तरापत्तिविवर्तः, सत्यरूपान्तरापत्तिः परिणामः। रूपान्तरापत्तिमात्रमुपादानत्वम् / तच्च ब्रह्मणो विवर्तरूपविशेषेणाप्युपपन्नम् / निर्विकारश्रुतिस्तु तात्विकविकाराभावाभिप्राया। ब्रह्म चाज्ञातं प्रपञ्चरूपेण विवर्तते इत्यज्ञानमपि परिणामितयोपादानम् / रूप्यमपि शुक्तिविवर्तत्वादज्ञानपरिणामत्वाच्चोभयोपादानमिति निरस्तम् / ब्रह्मकार्यस्यासत्यत्वानुपपत्तेः। तथात्वेवाsन्वयव्यतिरेकाभ्यामविद्यानिमित्तत्वमात्रापातात् / आरोपितानारोपितरजतानु. गतरजतत्ववत् सत्यासत्यरूपान्तरापत्त्यनुगतोपादानत्वसामान्याभावाच्च / ब्रह्मणो रूपान्तरापत्तर विद्यापरिणामत्वायोगाच्च / न ह्यन्यस्य रूपान्तरापत्तिरन्यपरिणाम इति युज्यते / तस्मान्न ब्रह्मण उपादानत्वम् / - पादानत्वोक्तिरयुक्तेत्यर्थः / अंशोस्तन्तुद्वारा पटोपादानत्ववद्ब्रह्मणो मायाद्वारा जगदुपादानत्वमिति मतमसंभवेन दूषयति--तृतीयोऽपीति / ननु विकारित्वं नोपादानत्वम्, किन्तु भ्रमाधिष्ठानत्वं तच्च वस्तुतो निर्विकारेऽपि ब्रह्मण्यविरुद्धमिति नेत्याह-- विभ्रमेति / पा िभाषिकति / मृदाद्यनुगत मुपादानलक्षणान्तरमाशङ्कय निराकरोति--एतेनेति / सत्यरूपान्तरापत्तिरित। धर्मिसमसत्ताकरूपान्तरापत्तिरित्यर्थः / रूपान्तरापत्तिमात्रमिति / रूपान्तरतादात्म्यापन्नकारणत्वमित्यर्थः / एतच्च सामान्यलक्षणं ब्रह्मणोऽतात्विकरूपान्तरापत्त्याऽप्युपपद्यत इत्याह--तच्चेति / ब्रह्मविवर्तप्रत्येवाज्ञानं परिणामितयोपादानं तस्य स्वसमसत्ताकरूपान्तरापत्तिसत्त्वादित्याह --ब्रह्म चेति / शुक्तिरूप्यादेरिवकोपादानत्वमस्त्वित्याशङ्कय तस्याप्यज्ञातशुक्तिविवर्तत्वादुभयोपादानकत्वं तुल्यमित्याह---रूप्य मति / एतेनेत्येतद् विवृणोति- ब्रह्मेति / सद्रूपब्रह्मोपादानत्वे कार्यस्यापि सत्यता स्यादित्युक्तत्वादित्यर्थः / ब्रह्मकार्यस्याऽप्यविद्यादोषजन्यत्वादसत्यत्वमित्याशंक्य तथा सत्यविद्यायास्तदुपादानत्वं न स्यादित्याह तथात्व इति / किञ्च सद्रपे ब्रह्मण्यसत्यरूपाज्ञाने चानुगतेकोपादानत्वासंभवात् तुल्यं लक्षणमयुक्तमित्यभिप्रेत्याह -आरोपितेति / ब्रह्मविवर्त प्रति परिणामितयाऽज्ञानमुपादानमित्येतदप्ययुक्तमित्याह-ब्रह्मण इति / शुक्तिविवर्तस्य रजतस्य तदज्ञानपरिणामित्वं दृष्टमित्याशङ्कय तदपि विप्रतिपन्नमित्यभिप्रेत्याह-न हीति / ब्रह्मो. पादानताया दुनिरूपणान्न तस्य जगदुपादानतेत्याह-तस्मादिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy