________________ 284 सटीकाद्वैतदीपिकायाम् दुनिवारम् / न ह्युपादानस्वभावस्योपादेये धीमात्रम् / अविद्यास्वभावस्यानिर्वचनीयत्वस्यापि प्रपञ्चे धीमात्रत्वापातात् / सन्मात्रोपादानत्वं सत्वे तन्त्रमिति चेत्, न; अनिर्वचनीयत्वमपि न स्यात् तन्मात्रोपादानत्वाभावात् / द्वितीये मायाख्यहेतूपरागभावाभावाभ्यां विकारभावाभावविवक्षा चेत्, मृदादिसाधारण्यम् / मायाशक्तिमब्रह्मविकारि निविकारश्रुतिस्तु तदनुपरक्ताभिप्रायेति विवक्षायां शक्तिमतो ब्रह्मत्वे निर्विकारश्रुतिविरोधः। तदन्यत्वेन नो विवादः। किञ्च विशिष्टस्य मृदादि. वमिसमसत्ताकरूपान्तरापत्तिरूपपरिणामाद विवर्तहानिः / विशिष्टस्य परिणामः शुद्धस्य विवर्त इति चेत् / तहि शुद्धविवर्तार्थमारोपितविकारस्यावश्यकत्वान्निवि कारश्रुतेस्तत्परत्वं न स्यात् / श्रुतिविशेष्यस्यैव तात्विकविकाराभावपरा चेत् विशिष्टविकारोक्तिरयुक्ता स्यात्। तत्त्वतो निर्विकारे आरोपितविकाराविरोधात्। तृतीयोऽप्ययुक्तः, अंशोस्तन्तुं प्रतीव ब्रह्मणोऽनादिमायां प्रत्युपादानत्वाभावात् / विम्रमाधिष्ठानत्वमुपादानत्वमित्यपि न, उपादानमृदादौ भ्रमाधिष्ठा कार्यस्य सत्त्वे सन्मात्रोपादानत्वं प्रयोजकम्, न तु सदुपादानत्वमिति शङ्कते-सदिति / कार्यस्यानिर्ववनीयत्वेऽव्यनिर्वचनीयमात्रोपादानत्वं प्रयोजकमिति तदपि न स्यादित्याहअनिर्वचनीयत्वमिति। द्वितीये कालभेदेन मायोपरागतदभावी विकाराविकारब्यवस्थापकाविति विवक्षितमुत समानकालींनावेव / आये न ब्रह्मणो मृदादितो विशेष इति दूषयतिद्वितीय इति / द्वितीये मायोपरक्तस्य विकारिणो निर्विकारब्रह्मणा सहाभेदो भेदो वा? आद्य तस्य निर्विकारत्वक्षतिरित्याह--शक्तिमत इति / द्वितीये ब्रह्मभिन्नस्याब्रह्मत्वात् तस्य जगदुपादानत्वमिष्टमित्याह--तदन्यत्व इति / किञ्च मायाश क्तविशिष्टाकारेण ब्रह्मण उपादानत्वे विशिष्टस्यानिर्वचनीयत्वेन तत्समसत्ताकं कार्य तत्परिणाम एव स्यात् धर्मिसमसत्ताकरूपान्तरापत्तेः परिणामत्वनियमात् ततश्च विवर्तवादहानिरित्याह--किंचेति / प्रपञ्चस्य विशिष्टपरिणामत्वेऽपि न विवर्तहानिरिति शङ्कते--विशिष्टस्येति / किमस्मिन् पक्षे निर्विकारश्रुतिः शुद्धस्य विकारमात्राभावपरा? उत, वस्तुतो विकाराभावपरा ? नाद्यः, शुद्धेऽप्यारोपितविकारस्यावश्यकत्वादित्याह--तीति / द्वितीयमुद्भाव्य दोषमाह---श्रुतिरित्यादिना | शुद्धं ब्रह्मवोपादानं न च निर्विकारश्रतिविरोधः, आरोपितविकारेण वास्तवनिर्विकारत्वस्याविरोधादिति वक्तुं शक्यत्वाद् विशिष्टस्यो