SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 283 उपादानत्वे नवान पक्षः नवीनस्तु विकारवत्कारणत्वमुपादानत्वम् / परिणामित्वं युपादानत्वम् / तच्च विकारित्वम् / ब्रह्म च निविकारं कूटस्थमचलं ध्रुवमित्यादिशास्त्रादिति ते मतम्। ननु मायाविशिष्टम, मायाशक्तिमद वा मायाश्रयो वा ब्रह्म जगदुपादानम् / तत्र प्रथमे द्वे सूत्रे रज्जोरिव मायाब्रह्मणी उपादाने / निर्विकारश्रुतिस्तु केवलब्रह्मपरा। द्वितीये मायोपरागात् ब्रह्मोपादानम् / श्रुतिस्तु तदनुपरागब्रह्माभिप्राया। तृतीयेऽशुस्तन्तुद्वारा पटस्येव मायाद्वारा ब्रह्मोपादानम्, श्रुतिस्तु अद्वारविकारनिषेधिकेति चेत्, न; आद्ये मायावत् तन्तुवच्च विकारीति विशेष्यब्रह्मणो निर्विकारत्वोक्त्ययोगात्। किञ्चाविद्योपादानत्वेऽपि सूत्रकार्ये पटे सितत्ववज्जगति परमार्थसत्यत्वमपि श्रयत्वात्तत्र व्यभिचार इत्याह--- रमत इति / द्वितीयं दूषयति - अत एवेति / ब्रह्मणि व्यभिचारवारणाय भेदविशेषणं शङ्कते-अथेति / अनिर्वचनीया विद्यादेः स्वसमानसत्ताकभेदवत्त्वेऽपि कार्यत्वाभावात् तत्र व्यभिचार इत्याह---त्वदभिमतेति / अविद्या व्यावृत्तये विशेषणान्तरोपादाने हेतोरप्रयोजकतेत्यभिप्रेत्याह-अप्रयोजकत्वादिति / किञ्च यदि ब्रह्म कार्यद्रव्योपादानं स्यात्, तहिं ततोन्यनपरिमाणवत्स्यात् ततो न तदुपादानमिति बाधकान्तरमाह-कार्येति। घटाद्यनुगत सदस्तुनस्तदुपादानत्वे विकल्पमुखेन वाधकान्तरमाह---किं चेत्यादिना / परमाणुपरिमाणपरत्वादिव्यावृत्तये विशेषगुणस्येत्युक्तम्-कार्य इति / द्रव्य इत्यर्थः। ब्रह्मण्युपादानलक्षणासंभवान्न तस्योपादानत्वमिति परोक्तमनुवदति -नवीन इति / ब्रह्मण उपादानत्वेन विकारित्वेन निर्विकारश्रुतिविरोध इति वक्तुं तस्य मतभेदेन त्रिप्रकारमुपादानत्वं वदन् शङ्कते- नन्विति / आये मायाविशिष्टरूपेण विकारित्वेऽपि केवलरूपेण निर्विकारत्वोपपत्तिरित्याह---तत्रेति / मायाशक्तिमद्ब्रह्मोपादानमिति मते मायोपरागे विकारित्वं तत्तदभावे तु निर्विकारित्वमित्यविरोधमाह---द्वितीय इति / मायाश्रयो ब्रह्मोपादनमिति मते मायाद्वारा विकारित्वं निर्विकारित्वं तु साक्षादित्य विरोधमाह- -तृतीय इति / विशिष्टस्य विशेष्यविशेषणाभ्यामनन्यत्वात् तद्विकारेण विशेष्यस्यापि विकारो दुर्वार इत्याद्यं दूषयति-आद्य इति / तन्तुवदेव ब्रह्मण उपादानत्वे तन्तुस्वभावस्य श्वैत्यस्येव ब्रह्मस्वभावस्यापि परमार्थसत्यत्वस्य तत्कार्यवृत्तिता स्यादित्याह--किंचेति / उपादानस्वभावस्य' कार्ये धीमात्रमपेक्ष्यते न तु सत्वं ब्रह्मस्वभावस्यापि सत्तादेः प्रपञ्चे प्रतीतिमात्रमस्त्येवेत्याशंक्य तथा सत्यविद्यास्वभावोऽ निर्वचनीयत्वमपि प्रपञ्चे न स्यादिति दूषयति---न हीति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy