________________ 282 सटीकाद्वैतदीपिकायाम् न च मृदादेरवच्छेदकतयाऽन्वयव्यतिरेको, तदनुगतसत्तकैव सर्वकार्योपादानमिति वाच्यम्; सत्ताजातेरनुपादानत्वात्, सत्ता च नित्यत्वे सत्यनेकसमवेतत्वाज्जातिः। मृदादेः स्वतन्त्रान्वयादिना घटाधुपादानत्वाच्च / किञ्च सत्ता न द्रव्योपादानं निःस्पर्शत्वात् गगनवत् / अन्यथा कार्यद्रव्ये स्पर्शनियमाभावप्रसंगात् / आकाशादिश्च न कार्य निरवयवद्रव्यत्वात्, आत्मवत् न चासिद्धिः निःस्पर्शत्वेन तत्सिद्धः, तत्कार्यत्वे साधकाभावाच्च / श्रुतेरनुमानविरोधेऽन्यपरत्वात् / आकाशादिः कार्य विभक्तत्वात घटादिवदिति चेत् न, विभक्तत्व यदि विभागाश्रयत्वं तदा निरवयवसंयोगवन्निरवयवविभागोऽपि सिद्धान्ते नास्तीत्यसिद्धिः। परमते परमात्मनि व्यभिचाराच। अत एव न भिन्नत्वमपि प्रपञ्चभिन्ने ब्रह्मणि व्यभिचारात् / अथ स्वसमानसत्ताकभेदाश्रयत्वं भिन्नत्वं न ब्रह्मणीति चेत्, न; त्वदभिमताविद्यायां तस्यापि सत्वात् / अप्रयोजकत्वाच्च, कार्यद्रव्यस्य स्वन्यूनपरिमाणद्रव्योपादानकत्वनियमाच्च न ब्रह्मण उपादानत्वम्। किञ्चोपादनं सच्चेतनमचेतनं वा? प्रथमे घटादेरपि चेतनत्वापत्तिः उपादानगतविशेषगुणस्य कार्ये स्वसमानजातीयगुणारम्भकत्वनियमात / अन्त्ये न त्वदभिमतब्रह्मोपादानता-. सिद्धिः। द्रव्योपादानस्य स्पर्शवत्वनियमात् सत्तायाश्च तदभावादपि न द्रव्योपादानतेत्याहकिं चेति / स्पर्शरहितस्यापि द्रव्योपादानवे बाधकमाह--अन्यथेति / कार्यद्रव्यस्याऽऽकाशादेः स्पर्शाभाव इष्ट इत्याशङ्कयाह -आकाशादिश्चेति / घटादौ रूपादौ च व्यभिचारवारणाय विशेषणद्वयम् / आकाशादौ निरवयवत्वमसिद्धमित्यत आह न चेति। आकाशादिकार्यत्वेमानाभावादपि तदकार्यतेत्याह-तत्कार्यत्व इति / 'आत्मन आकाशः संभूतः' इत्यादि श्रु तरेव तत्र मानमित्यत आह-श्रुतेरिति / यावद्विकारं तु विभागो लोकवादति सूत्रोक्तमनुमानमनद्यापवदति--आकाशादिरिति / किं विभक्तत्वं विभागाश्रयत्वं भिन्नत्वं वा ? आद्य तावदसिद्धमित्याह--विभक्तत्वमिति / संयोगपूर्वकत्वाद्विभागस्य निरवयवा. काशादौ संयोगाभावेन विभागस्याप्यसंभवादित्यर्थः। भेदिमते ब्रह्मणोऽपि विभागा.