________________ तृतीयः परिक 279 श्रवणादो विधिनिरूपणम् / - अद्वैतब्रह्मप्रतिपादकवेदान्तश्रवणनियमाभावे आत्मज्ञानाथिनो नैय्यायिकादिदर्शनेऽपि कदाचित प्रवृत्तिप्रसङ्गाच्च / द्वा सुपर्णेत्यादिवाक्यं श्रुतवतो विचारात प्राग्भेदज्ञानान्मुक्तिरिति भ्रमसंभवात् तावतापि वेदान्तविधारस्य पाक्षिकता. पातात् / कथं तात्मा श्रोतव्यः' इति वाक्याद् भिन्नात्मतत्वश्रवगनिवृत्तिरिति चेत् उच्यते____ यद्विज्ञानात् सर्वविज्ञानं तमेव ह्यानन्दात्मकमात्मानं प्रस्तुत्यात्मदर्शनाय श्रवणादि विधीयते / नहि भेदवादिसंमतात्मतत्त्वदर्शनात सर्वदर्शनं भवति / न वा स आत्माऽऽनन्दो भवति / तथा चात्मा द्रष्टव्य इत्यत्राद्वितीय एवात्मा आत्मशब्देनाभिधीयते / अध्ययनविधिना गुरुमुखाध्ययनमिव श्रवणविधिनाआचार्याधीनं श्रवणं नियम्यते इति केचित् / स्वातन्त्र्येण पुराणनिवृत्त्यर्थो वा वेदान्तविचारो नियम्यते। उपासनाविधिशेषतया ब्रह्मसमर्थणमतनिरासः यत्तूपासनाविधिशेषतया ब्रह्म वेदान्तप्रतिपाद्यमिति / तन्न, तथा सति द्वैतब्रह्मपरवेदान्तविचारनियमनार विधिरर्थवानित्यभिप्रेत्याह--श्रव गादाविति / आत्मज्ञानाय वेदान्तविचारादन्यत्र कदाचित् प्रवृत्यप्राप्तः कथं तन्निवृत्तिफलको नियमविधिरित्यत आह-अद्वैतोते / भिन्नात्मज्ञानस्य मुक्त्यहेतुत्वात् कथं मुमुक्षोरेत तुदर्शने प्रवृत्तिरित्यत आह-द्वा सुपर्णेति / भिन्नात्मविचारस्य मोक्षसाधनज्ञाने वस्तुतोऽनुपयुक्तत्वात् तत्र भ्रान्त्यैव प्रवृत्तिर्न मानादित्यत आह-सावतापीति / नियमविधिहि नियम्ये कदाचिदप्रवृत्तिमात्रमपेक्षते तदन्यत्र भ्रान्त्यापि प्रवृत्तौ संभवति / अन्यथाऽवहननादावपि नियमविधिर्न स्यात् / वस्तुतोऽपूर्वाय तण्डुलान् प्रति नखविदलनादेः साधनत्वाभावेन तत्रापि मानतस्तदर्थं प्रवृत्ययोगादिति भावः / श्रवणविधिवाक्येऽद्वितीयात्मोपस्थित्यभावात्कथं तद्विचारनियमनमिति शङ्कतेकथं तीति / प्रकरणानुगृहीतात्मपदसामर्थ्यादेवाद्वितीयात्मप्रतिपत्तेस्तद्विचारनियमनमिति समाधत्ते--उच्यत इति / ___ आत्मविज्ञानात् सर्वविज्ञानाद्यभिधानेन कथं पराभिमतात्मपर्युदास इत्यत आहन हीति / अद्वितीयात्मनस्तु सर्वजडसत्तादिरूपतया तद्विज्ञाने सर्वविज्ञानोपपत्तेः तस्य परमानन्दरूपत्वाच्च स एवात्रात्मपदोपात्त इत्याह - तथा चेति / स्वातन्त्र्येणात्मविचारनिवृत्तये गुरुमुखादेव श्रवणं नियम्यत इति मतान्तरं सदृष्टान्तमाह-अध्ययनेति / आत्मज्ञानार्थिना वेदान्तश्रवणमेव कार्य न पुराणमात्रश्रवणमिति वा नियम्यत इत्याहस्वातन्त्र्येणेति / साक्षात्कारे विध्यभावेऽपि तदुद्देशेन ज्ञानसंतानविधिसंभवात् तच्छेषतया