SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 280 प्रमाणाभावेन ब्रह्मस्वरूपासिद्धिप्रसङ्गात् / प्रत्यक्षादिविरोधेऽतत्पराच्छब्दात् तदसिद्धः / आरोपितरूपेणाप्युपासनोपपत्तेः निदिध्यासनातिरिक्तमोक्षसाधनोपासनायां प्रमाणाभावात् / निदिध्यासनस्य च स्वतः फलवत्त्वाभावेन तस्मिन् वेदान्तानां तात्पर्याभावात्। आत्मेत्येवोपासीतेति च नोपासनम्. ज्ञानफलस्य सर्वात्मभावस्य तत्र श्रवणात् / न हि ज्ञानातिरेकेण सर्वात्मभावो भवति, अन्यस्यान्यात्मतानुपपत्तः पूर्वमपि तदात्मनस्तद्भावस्य ज्ञानातिरिक्ता. साध्यत्वात्। सगुणोपासनं तु निर्गुणब्रह्मपरर्वेदान्तः प्रसङ्गात् तत्तत्फलाय विधीयते / निरतिशयपुरुषार्थस्याभेदज्ञानेकलभ्यत्वेन तत्रैव सर्ववेदानां पर्यवसानात् / तथा च श्रुतिः -- सर्वे वेदा यत्पदमामनन्ति" इति / उपासनात्मिका वृत्तिर्न ज्ञानं ब्रह्म वेदान्ता) इति मतान्तरमनुवदति दूषयितुम्-यत्त्विति / वेदान्तानां विधिपरत्वे ब्रह्मणि मानाभावात्तदेव न सिद्धयत् कुतस्तस्य विधिशेषतेत्यभिप्रेत्य दूषयतितन्नेति / देवताधिकरणन्यायेनान्यपरादपि शब्दात् ब्रह्मसिद्धिमाशङ्कयाह-प्रत्यक्षादीति / मानान्तराविरोधेऽन्यपरादपि वाक्यात् प्रतीयमानार्थोऽभ्युपेयत इति हि देवताधिकरणे व्युत्पादितम् / अद्वैतब्रह्मणश्च मानविरुद्धत्वान्न विधि रवाक्यात् सिद्धिरिति भावः / __यदपि चोक्तं विध्याक्षेपरूपौपादानिकप्रमाणात् तत्सिद्धिरिति तत्राह-आरोपितेति / 'वाचं धेनु सुपासीत' इत्यादिवदुपासनाया आरोपितविषयत्वेऽपि तद्विधिसंभवान्न तस्योपास्ययाथार्थ्यापेक्षेति भावः / किञ्च विधीयमानमुपासनं निदिध्यासनमेव तदतिरिक्तं वा ? नात्य इत्याहनिदिध्यासनेति / आये तस्य चित्तैकाग्रचद्वारा मोक्षसाधनज्ञानशेषत्वेन स्वतः फलत्वाभावात् तत्परत्वं वेदान्तानाम युक्तमित्याह-निदिध्यासनस्येति / कथं तहि निगुणब्रह्मप्रकरणे आत्मेत्येवोपासीतेत्युपासनाविधिरित्याशङ्ख्यात्राद्वितीयात्मैव ज्ञेपत्वेन च्यते न तु तदुपासनं विधीयते / “अत्र ह्येते सर्व एकीभवन्ती"ति ज्ञानफलस्यैव श्रवणादित्याह - आत्मत्येवेति / उपासनयैव सर्वात्मभावोऽस्त्वित्यत आह-न हीति / वेदान्तानामद्वैतव्रह्मपरत्वे कथं तत्र तत्र सगुणोपासनविधानमित्यत आह-सगुणेति / अध्यारोपापवादन्यायेन निविशेषब्रह्मप्रतिपत्त्यर्थमारोपितगुणानाश्रित्य प्रसङ्गादवान्तरतात्पर्येण तत्तत्फलाय तत्तदुपासनाविधायकानामपि महातात्पर्येण निविशेषब्रह्मपरतैवेत्यर्थः / न केवल मुपासनाविधीनामेवाद्वितीयब्रह्मपरत्वम्, किन्तु काण्डत्रयात्मकसर्ववेस्यापि, तद्ज्ञानस्यैव परम रुषार्थहेतुत्वादित्यभिप्रेत्याह--निरतिशयेति / उक्तार्थे मानमाह-तथा चेति / वेदा ब्रह्मात्मविषयास्त्रिकाण्डण्डविषया इम
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy