________________ 270 सटीकाद्वैतदीपिकायाम् / साधनतया कामनेति तत्परतन्त्रव सा कामनापि स्वर्गसाधनत्वेनैव नियोगं गोचरयतीति कामनामुखमपि गुणत्वं नियोगस्यैव / तथाहि-यदि काम्यनियोगं कामना नियोगत्वेनैव विषयीकुर्यात / तदा कारीरीनियोगसिद्धयाऽपि स्वर्गकामना निवर्तेत सामान्येच्छाया यत्किञ्चिद्विषयनिवर्त्यत्वात् / ननु दर्शपूर्णमासनियोगेच्छा कथमन्यतो निवर्तेत अन्यस्य तदविषयत्वादिति चेत्, तहि दर्शपूर्णमासनित्यनियोगेन काम्यनियोगेच्छानिवृत्तिप्रसङ्गः। तस्मात् स्वर्गसाधननियोग एव कामनागोचर इति कामनामुखं गुणत्वं नियोगस्य / उपकारोऽपि वास्तवो नियोगेन स्वर्गस्य जायते तदुत्पत्तेस्तद्धेतुकत्वात्, न तु तस्य स्वर्गेण, नियोगस्य स्वर्गाहेतुकत्वात् / प्रतीतिकृतोपकारवैपरीत्यं तु न तद्गुणत्वनिमित्तम् लोके फलस्य तथाऽदर्शनात् / अपि च नियोगः स्वस्य वाक्यीयप्रमितये पुरुषविशेषणतया स्वर्ग नापेक्षते / तेन विनाऽपि यावज्जीवादिवाक्यात तदुपस्थितेः / काम्यनियोगावगमः तेन विना न भवतीति चेत्, कि नियोगस्य काम्यत्वं स्वरूपेण काम्यसाधनतया वा? नाद्यः स्वर्गकामनारहितस्यापि तत्काामनाप्रसङ्गात् / तथा च त्याह-कामनापीति / कामिनियोगः फलसाधनतयैव कामनागोचर इति वर्तु तस्य प्रकारान्तरेण तद्गोचरत्वं निराकरोति-यदीति / दर्शपूर्णमासनियोगत्वेन तस्य कामनागोचरत्वात् कारीरीनियोगलामेन तत्कामनाया न निवृत्तिरिति शङ्कते-नन्विति / दर्शपूर्णमासयोनित्यकाम्यतया तद्विषयनित्यनियोगेनापि नियोगान्तरकामनानिवतेतेति दूषयति-तीति / काम्यनियोगः फलसाधनतयैव कामनागोचर इति फलं प्रति तस्य गुणत्वमेवेत्युपसंहरति-तस्मादिति / किञ्च सर्वत्रोपकारकस्योपकार्यशेषत्वान्नियोगस्य च स्वर्गस्वरूपोपकारकत्वात् तच्छेषत्वं युक्तमित्याह-उपकारोऽपीति / स्वर्गस्यापि नियोगप्रतिपत्तिहेतुनियोज्यविशेष. णतया तत् प्रतिपत्तावुपकारकत्वमस्तीत्याशंक्य नैतद्गुणत्वप्रयोजकमारोग्यार्थी भेषजं पिबेदित्यादौ नियोगप्रतिपत्तिहेतोरपि फलस्य गुणत्वादर्शनादित्याह-प्रतीतीति / स्वर्गस्य नियोगप्रतिपत्तिहेतुत्वमङ्गीकृत्येदमुक्तम् / वस्तुतस्तदेव नेत्याह-अपि चेति / काम्यनियोगप्रतिपत्तावेव स्वर्गस्य नियोज्यविशेषणतया हेतुत्वान्न तत्र व्यभिचार इति शङ्कते-काम्येति : नियोगस्य किं सुखवत् स्वभावात् काम्यमानता पश्वादिवत् फलसाधनतया वेति विकल्पयति-शिमिति आद्य स्वर्गकामनामनपेक्ष्यैव तत्कामना स्यात्, तत्रातिप्रसंग इति दूषयतिनाद्य इति / दूषणान्तरमाह--तथा चेति / नियोगस्य स्वतः काम्यमानत्वे तत्कामिन एव