SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 269 तृतीयः परिच्छेदः प्रधानम् / तदुक्तम् आत्मसिद्धयनुकलस्य नियोज्यस्य प्रसिद्धये / कुर्वत् स्वर्गादिकमपि प्रधान कार्यमेव नः / / इति / लोके तु शब्दस्य प्रमाणान्तरापेक्षत्वादारोग्यार्थी भेषजं पिबेदित्यारोग्यादेः क्रियाकार्य प्रति शब्दतो गुणत्वेऽपि प्रमाणान्तरतः फलस्यैव स्वत उद्देश्यता प्राधान्यावगमात / क्लेशरूपक्रियायाः स्वतः प्राधान्यायोगाच्च विपरीत एव गुणप्रधानभावः / अत एव तस्य न कृति प्रत्यपि प्राधान्यम, न हि कृतिः स्वर्गमुद्दिश्य प्रबृत्ता, किन्तु नियोगमुद्दिश्य, क्रियापेक्षया प्राधान्यं तु न लक्षणमिति / उक्तशंका गरिहारः तन्न, तथाहि-- सत्यं कामावच्छेदकतया स्वर्गः पुरुषविशेषणम् तथापि न नियोगशेषः स्वतन्त्रकामनागोचरत्वेन तस्यैव कृत्युद्देश्यत्वात् / स्वातन्त्र्यं च तस्यां सत्यामेव तदनुकूलतदतिरिक्तकामनेति सिद्धम् / नियोगे च काम्यमानस्वर्ग प्राधान्यमवगम्यने / तच्च स्वर्गसाधनत्वेऽपि न विरुध्यते कामिनियोज्यस्य काम्यमानस्वर्गाभावे नियोगोत्पादकयागादौ प्रवृत्त्ययोगान्नियोगेन स्वसिद्धयनुकुलतयैव स्वर्गोत्पादनात् / ततश्च स्वोपकारकगर्भदासपोषकस्वामिन इव नियोगस्यापि न प्राधान्यभंग इति भावः / उक्तार्थे --शालिकानाथवचनमुदाहरति-तदुक्तमिति / स्वर्गादिकं कुर्वदपि कार्य नः प्रधानमेवेति योजना। लौकिकफलकार्ययोरपि किमेवं गुणप्रधानभाव इति पृच्छायां वैषम्यमाह-लोके त्विति / अस्य विपरीत एव गुणप्रधानभाव इत्युत्तरेण योजना। लौकिकवाक्यस्य मूलप्रमाणानुरोधेनैव प्रमाणत्वात् तेन च फलस्यैव स्वत उद्देश्यतया प्राधान्यावगमाच्छन्दतो नियोज्यविशेषणतया प्रतीयमानं गुणत्वं च ग्राह्यमित्याहशब्दस्येति / क्रियाकार्यस्थ प्राधान्यायोगादपि फलमेव प्रधानमित्याह-क्लेशति / स्वर्गस्य नियोगं प्रत्यप्रधानत्वेऽपि कृति प्रति प्राधान्यमस्तीति तत्रातिव्याप्तिरित्यत आहअत एवेति / कृत्युद्देश्यस्यैव कृति प्रति प्रधानत्वात् स्वर्गस्यातथात्वान्न कृति प्रति प्राधान्यमित्यर्थः / स्वर्गस्य यागसाध्यतया तं प्रति प्राधान्यमरतीत्याशङ्क्याह-क्रियेति / न लक्षणमिति / तथा च नातिव्याप्तिरिति भावः / स्वर्गो न साक्षात् पुरुषविशेषणं किन्तु तद्विशेएणसामनागोचरतया ततश्च स्वतन्त्रकामनागोचरस्य एतस्यैव कृत्युद्देश्यतया कृति प्रत्यपि प्रधानलान्न स्वर्गजनकवियोगनिशेषणतेत्याह-तन्नेति / स्वर्गकामनायाः स्वातन्त्र्य पणारयति--स्वातन्त्र्यं चेति / नियोगे तु फलकामनायुक्तव कामनेति न तस्य कृत्युद्देश्यनत्यभिप्रेत्याह नियोगे चति / नियोगस्य स्वतन्त्रकामनाऽगोचरत्वेन कृत्यनु. द्देश्यत्वात्प्राधान्य युक्तः, संप्रति तत्कामनैव तद्गुणत्वगोचरेति न तस्य प्राधान्यमि
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy