________________ 268 सटीकाद्वतदीपिकायाम हीच्छाविषयत्वज्ञानं प्रवर्तकम; चिकीर्षानुकूलज्ञातस्यैव प्रवर्तकत्व त् / यागस्यापि तादृशेच्छाविषयत्वाच्च / नापि कृतिसाध्यत्वे सतीष्टत्वं कृतीप्सितत्वम्, इष्टत्वस्येच्छाविषयत्वरूपत्वे दत्तदोषानिस्तारात् / फलरूपत्वे चापूर्वे तद. संभवात् / -- अथ कृतिसाध्यत्वे सतीष्टसाधनत्वं तदिति चेत्, न, यागस्याप्येवं रूपत्वात्। यत्तु कृतिसाध्यं प्रधान कार्यम् / स्वर्गस्तु न कृतिसाध्यः किन्तु क्रियासाध्यः यागश्च न प्रधानम् फलतत्साधनयोरन्यतरत्वाभावादिति / तदप्यत एव निरस्तम् यागस्याप्युक्तरूपत्वात् / अपूर्ववत्, स्वर्गस्यापि कृतिसाध्यत्वात् स्वर्गवदपूर्वस्य तदभावाच्च। नियोगस्य वाक्यार्थे प्राधान्यमितिशंका यदपि स्वर्गकामवाक्ये स्वर्गः पुरुषविशेषणतयाऽवगम्यमानस्तद्वारा नियोगं प्रति गुणभूत एव / नियोगस्तु स्वसिद्धयनुकूलस्वर्गसाधनमपि प्रत्ययार्थतया दस्य चातथात्वादित्यर्थः / तस्याप्रवर्तकत्वमुपपादति-न हीति / ज्ञानस्य चिकीर्षाद्वारा प्रवृत्तिहेतुत्वाच्चिकीर्षाविषयत्वज्ञानस्य च तदनन्तरभावित्वान्न प्रवर्तकतेत्यर्थः / अतिव्याप्तिमप्याह-यागस्येति / द्वितीयमपवदति-नापीति / अत्रापीष्ठत्वमिच्छाविषयत्वं फलरूपत्वं वा ? नोभयथापीत्याह-इष्टत्वस्येत्यादिना / अपूर्व तदसंभवादिति / स्वतः काम्यमानस्यैव फलत्वादपूर्वस्य चातथात्वादिति भावः। तृतीयं शङ्कते-अथेति / यागादेरपीष्टसाधनताया उपपादितत्वात् कृतिसाध्यत्वाच्च तत्रातिव्याप्तिरिति दूषयति-नयागस्येति / शालिकनाथोक्तकार्यलक्षणमनुवदतियत्त्विति / अत्र कृतिसाध्यपदेन स्वर्गेऽतिव्याप्तिनिरासः। प्रधानपदेन च याग इति परैरुक्तम्, तदप्यनुवदति - स्वर्गस्त्विति / तदप्यतिव्याप्तत्वादयुक्तमित्याह-तदपीति / उक्तरूपत्वादिति / यागस्यापि फलसाधनतया प्रधानत्वात् कृतिसाध्यत्वाच्चेत्यर्थः। कि चात्र कृतिसाध्यत्वमात्रमभिप्रेतमुत साक्षात् कृतिसाध्यत्वम् ? आधे स्वर्गस्यापि परंपरया कृतिसाध्यत्वादतिव्याप्तिरित्याह-अपूर्ववदिते / द्वितीयेऽपूर्वस्यापि यागद्वारा कृतिसाध्यत्वादव्याप्तिरित्याह-स्वर्गवदिति / नियोज्यस्य नियोगशेषत्वात् तद्विशेषणं स्वर्गोऽपि तच्छेष इति न तस्य प्राधान्यं ततो न तत्रातिव्याप्तिरिति चोद्यमनुवदति-यदपीति / साधनस्य साध्यशेषत्वेन नियोगस्यैव स्वर्गशेषता किं न स्यादित्याशंक्याह-नियोगस्त्विति / नियोगस्य तावत् प्रत्ययार्थतया