________________ तृतीयः परिच्छेदः 267 वाच्यम्, लक्ष्यस्य हि वाच्यार्थसंबन्धितयाऽवगतिमात्रमपेक्ष्यते न तु मानेनावगतिः। अस्ति चात्र विमर्शरूपाऽवगतिः। अन्यथा क्रियानियोगश्चेत्यनेकार्थत्वकल्पनाप्रसंगात्। न च लोके लिङ्गादेर्लक्षणेति वाच्यम्, तत्र प्रथमावगतशक्तिज्ञानस्याबाधितत्वात् / किञ्च लोके क्रिया तदतिरिक्तं वा लिङ्गादिना लक्ष्यते ? नाद्यः; तस्या धातुनोपस्थितत्वात् / नान्त्यः; लोके क्रियाकारकातिरिक्तार्थाप्रतीतेः। कार्यत्वं धर्मों लोके लिङादिना लक्ष्यत इति चेत, तहि वेदेऽपि तदेव लिङर्थोऽस्त्विति लिङादिरुभयत्र मुख्यः / अपर्यवसानाच्च विशेषलाभः / अपूर्वस्यापि व्युत्पत्तिदशायां सामान्यसंबन्धितयाऽवगमात् / कार्यत्वस्य निवंचानहत्वाच्च न लिङर्थता किञ्च किमिदमपूर्वस्य कार्यत्वम्, न तावत् कृतिसाद्धचत्वम्, प्रधानकियाजनककृतेर्ब्राह्मणसन्तर्पणानन्तरभाविनियोगात् प्रागेय विनष्टत्वेन तस्य तवसाध्यत्वात् / ब्राह्मणसन्तर्पणान्ता कृतिरैकेवेति चेत् नव्यक्तिभेदस्य प्रत्यक्षत्वात्। अपि चैवं यागेऽपि कार्यता स्यात् / नापि कृतीप्सितत्वं कार्यत्वम्, तद् यदि कृत्या साधयामीतीच्छाविषयत्वम्, तन्न; तद्ज्ञानस्याप्रवर्तकत्वात् / न संमताऽस्तीत्याह-अस्तीति / लक्षणया विनियोगज्ञाने संभवति लिङ्गदेस्तत्रापि शक्तिकल्पने गौरवमित्याह-अन्यथेति / लोके धात्वर्थकार्यलक्षणाभ्युपगमान्न गौरवमित्याशक्याहन चेति / लोके लिङादिलक्ष्यस्य दुनिरूपत्वादपि न तत्र लक्षणेत्याहकिञ्चेति / द्वितीयं कल्पमादाय शङ्कते-कार्यत्वमिति / कार्यत्वधर्मस्य लौकिकवैदिककार्येष्वनुगतस्यैकस्यैव सर्वत्र लिङादिपदशक्यत्वसंभवान्न कुत्रापि लक्षणाऽऽस्थेयेति परिहरति--तहीति / कार्यत्वधर्मस्यैव लिङाद्यर्थत्वे कथं लोकवेदयोर्व्यक्तिविशेषलाभ इत्याशक्य जातेः पदार्थत्वमते व्रीह्यादिविशेषवत्तल्लाभ इत्याह-अपर्यवसानादिति / पदशक्यसामान्याश्रयतयाऽवगतस्यैवापर्यवसानात् / लाभे नियोगस्य च तथा पूर्वमनवगमात् कथं अपर्यवसाभात् तल्लाभ इत्याशक्य विमर्शावस्थायां तस्यापि तथाऽवगमान्न दोष इत्यभिप्रेत्याह--अपूर्वस्येति / क्रियातिरिक्तकार्ये नियोज्यप्रवृत्त्युपयोगिकार्यत्वमपि दुनिरूपमित्याह-किञ्चेति / किं कृतिसाध्यत्वं कृतीप्सिततत्वं वा कृतिसाध्यत्वे सतीष्टसाधनत्वं वेति किंशब्दार्थः / आद्यमपवदति-न तावदिति / अत्र किं नियोज्यनिष्ठाशेषकृतिसाध्यत्वमभिप्रेतम्, उत यत्किचित्कृतिसाध्यत्वम् आद्यमसंभवेन दूषयति-प्रधानेति / एकस्मिन् प्रयोगे कृतेरेकत्वान्नोक्तदोष इत्याशङक्यानुभवविरोधेन परिहरति-ब्राह्मणेत्यादिना / द्वितीये दोषमाह-अपि चेति / यागस्यापि कतिपयकृतिसाध्यत्वादिति भावः / द्वितीयं दूषयति-नापीति / अत्रापीप्सितत्वमिच्छाविषयत्वमिष्टत्वं वेत्यभिप्रेत्याद्यमनूद्य दूषयति-तद्यदीति / अप्रवर्तकादिति / प्रवर्तकज्ञानविषयस्यैव त्वया कार्यत्वाभ्युपगमा