________________ 266 सटीकाद्वैतदीपिकायाम् अस्तु वाऽनन्यथासिद्धनियतपूर्ववतित्वमात्रं साधनत्वम्, तथापि न यागस्य कार्यताक्षतिः। तथा चाविद्यमानेऽपि यागे तच्छक्त्यादिरूपसाधनत्वं कार्यता वा श्रुत्या प्रमापयितुं शक्यत इति नालौकिककार्यव्युत्पत्तिः। अस्तु वाऽऽग्नेयादेः परमापूर्व इव व्यवहितस्यापि साधनता।यद्यपूर्वत्वात् तस्य क्रियानन्तरं योग्यत्वादन्वयबोधः तहि सुखत्वेन योग्यता प्रकृतेऽपि तुल्या। यदि स्वर्गत्वेन कालान्तरभावित्वनियमः, तर्हि स्वर्गकामकृतिसाध्यापूर्वस्यापि तथात्वम् / आग्नेयादिसाध्यपरमापूर्वस्य कालान्तरभावित्वप्रतिसंधाने त्वदुक्तयोग्यताज्ञानादन्वयबोधासंभवात् / अपगोरणवद्वाऽपूर्वव्यवहितसाधनतया. ऽन्वयबोधोऽस्तु, स्वर्गकामपदसमभिव्याहारेणापूर्वद्वारस्याप्युपस्थितत्वात् / नियोगवाक्यार्थवादेऽपि लिङस्तत्र लक्षणवोचिता न प्रथमावगतिविरुद्धा शक्तिः / न च वाच्यार्थसंबन्धितया मानान्तरेणापूर्वस्यानवगमान तत्र लक्षणेति व्यवहितत्वविशेषणं व्यर्थमित्यभिप्रेत्योक्तमङ्गीकरोति-अस्तु वेति / अस्मिन्नपि पक्षे व्यवहितस्यापि यागादेः स्वर्गसाधनत्वसंभवात्, तत्कामिकृतिसाध्यतोपपत्तिरित्याहतथापीति / साधनत्वं कार्यता वेति मतभेदेनोक्तम् / किञ्च गुरुमतेऽपि न यागस्य स्वर्गसाधनतानुपपत्तिराग्नेयादीनां व्यवहितपरमापूर्वसाधनत्ववत्तदुपपत्तिरित्याह-अस्तु वेति / अवान्तरापूर्ववत् परमापूर्वस्याप्यपूर्वत्वात् क्रियानन्तरभावित्वयोग्यतया क्रियायास्तत्साधनत्वप्रतिपत्तिरित्याशङ्क्य साम्येन परिहरति-यदाति / स्वर्गत्वेनोपस्थितस्य कालान्तरीयत्वप्रतिसंधानान्न तस्य क्रियानन्तरभावित्वयोग्यतेत्याशक्याधिकारापूर्वस्यापि तत्वेन कालान्तरभावित्वनियमान्न क्रियानन्तर. भावित्वं योग्यतेत्याग्नेयादेस्तत्साधनत्वप्रतिपत्तिर्न स्यादित्याह-यदि स्वर्गत्वेनेत्यादिना / गरुमते यथाऽपगोरणस्य ब्राह्मणं प्रति हननोद्यमनस्यौपादानिकं कालान्तरीयशतयातनासाधनत्वं दुरितापूर्वद्वारा निर्वाह्यते, एवं यागस्यापि कल्पितापूर्वद्वारा स्वर्गसाधनतोपपत्तित्यिाह-पगोरणेति / एवं क्रियातिरिक्त कार्य न वेदार्थ इत्युक्तम्, संप्रति वेदार्थत्वमभ्युपेत्य तत्र वैदिकलिङादिपदानां पराभिमतां शक्ति निराकरोति-नियोगेति / शक्यसंबधितया मानान्तरावगते तीरादौ गङ्गादिपदस्य लक्षणादर्शनादपूर्वस्य च मानान्तरेण तथानवगमान्न तत्र लक्षणेत्याशक्य वाच्यसंबन्धितयाऽवगतिमात्र लक्ष्यस्यापेक्षितम्, न तु मानेनापि तदवगतिगौरवादित्यभिप्रेत्याह-न चेत्यादिना / नियोगे लिङादिपदस्य शक्तिग्रहात् पूर्वमवगतिमात्रमेवासिद्धमित्याशक्य तर्करूपावगतिस्तवापि