________________ तृतीयः परिच्छेदः 265 तच्चाव्यवहितं व्यवहितं वा भवतु न त्वव्यवहितमेवेति नियमः, अव्यवहितत्वभागस्य प्रवृत्तावनपेक्षत्वात् / अत एवौदनकाम्यसिद्धतण्डुलोऽवहननेऽपि प्रवर्तते सिद्धतण्डुलः पाक एव। एवं यागं विना न स्वर्गः, कृते च तस्मिन्नकामिनः कार्यान्तरमिति स एव स्वर्गकामिकृतिसाध्यः नापूर्वम् तस्यानुनिष्पादित्वात् / किञ्च शक्तिमत्त्वं साधनत्वम्, न त्वव्यवहितपूर्वक्षणतित्वं तन्तुरूपादेरपि तत्सत्वात् / न चानन्यथासिद्धत्वेन विशेषितं तत्साधनत्वलक्षणं, एकरूपान्यथासिद्धेरभावात् अनुगतलक्षणासिद्धः। पूर्वक्षणस्याहेतुत्वप्रसङ्गाच्च। यागानियोगादिकं प्रत्यहेतुत्वापाताच्च / न च तद्वयापारस्य पूर्वक्षणतित्वेन व यागस्य साधनता तस्य ततोऽन्यत्वात्। न ह्यन्यस्याव्यवहितपूर्वसमयवतित्वमन्यस्य भवति। यागस्य स्वर्गाद्यव्यवहितपूर्वक्षणवतित्वलक्षणसाधनत्वं विनापूर्वस्य तद्व्यापारत्वायोगाच्च / तज्जन्यत्वे सति तज्जन्यजनकस्यैव तद्व्यापारत्वात् / अन्यथा जनकर्तव स्यात् / रासभादेश्च तावृशशक्तिमत्वे न लौकिकं वैदिकं वा किञ्चिन्भानमिति न स पटादेः कारणम् / इत्याह - तच्चेति / सामान्यत उक्तरूपं प्रकृतेऽपि योजयति--एवमिति / वाजिनवन्नान्तरीयकतया सिद्धत्वादपि नापूर्व कार्यतयोपदिश्यत इत्याह-तस्येति / अव्यवहितताऽघटितं साधनत्वमङ्गीकृत्य कामिकृतिसाध्यताप्रयोजकं रूपं यागादावप्यस्तीत्युक्तम्, संप्रति कार्यानुकूलशक्तिमत्त्वमेव साधनत्वम्, तच्च यागादेर यस्तीत्यभिप्रेत्याह-किं चेति / अत्र च कारणताग्राहकमानमेव प्रमाणमित्यभिप्रेत्य पराभिमतं कारणत्वं निराकरोति-नत्वित्यादिना / एकरूपान्यथासिद्धरेभावादिति / यदवच्छेदेन यस्यान्वयव्यतिरेकावित्याद्यन्यथासिद्धिलक्षणानां तन्तुरूपादावव्याप्तत्वादन्यस्य वाऽनुगतस्य दुर्निरूपत्वादित्यर्थः। अहेतुत्वप्रसङ्गादिति / पूर्वक्षणे पूर्वक्षणाभावादित्यर्थः। किञ्चैवं गुरुमते व्यवहिततयाअनन्वितानामाग्नेयादीनामधिकारापूर्वकारणता न स्यात् / भट्टमते च तेषां स्वर्गसाधनतापि न स्यात्, व्यवहितत्वादित्याह-यागादेरिति / नन्वाग्नेयादिजन्यावान्तरापूर्वाणां तद्व्यापाररूपाणां नियोगादिकं प्रत्यव्यवहितत्वेन तेषां तत्साधनतेति तत्राह-न चेति / स्वस्य स्वव्यापारस्य वाऽव्यवहितपूर्ववर्तित्वमेव कारणत्वम् / ततश्च यागादिव्यापारस्य नियोगाद्यव्यवहितत्वान्न दोष इत्याशक्य यागादेरुक्तकारणतां विना तज्जन्यापूर्वस्य व्यापारत्वासिद्धेः परस्पराश्रयापात इत्यभिप्रेत्याह-यागस्येति / व्यापारलक्षणे व्यापारजन्यस्य तज्जनकजन्यत्वानपेक्षायां दोषमाह-अन्यथेति / स्वोक्ते लक्षणेऽतिप्रसङ्गो नेत्याह-- रासभादेरिति / पराभिमतलक्षणे -