SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 264 सटीकाद्वैतदीपिकायाम् सर्वैरहमेव वेद्यः' इति वचनात् सिद्धः। तस्य ब्रह्मणि विनियोगप्रकारश्च विविदिषावाक्येन दशितः / न चैतावता कार्यस्य प्राधान्यभङ्गः। तद्वाक्यावगतकादिप्राधान्यस्यैवमप्यनपायात् / नामात्यस्य राजशेषत्वं भृत्यादिकं प्रति शेषित्वविरोधि। कार्यस्य वेदार्थत्वनिरास: धात्वर्थातिरिक्तकार्य च न वेदार्थः / कुतस्तस्य प्राधान्यम् ? तथाहि-- अस्ति लोके लिङादेः श्रेयः साधनत्वे कार्ये वा शक्तिः तथापि नापूर्व वेदार्थः / तत्र लिङादेः शक्तिग्रहाभावात् / ननु लोके गृहीतव कार्ये शक्तिः वेदेऽपूर्वे पर्यवस्यति / यागादेः स्वर्गाद्यसाधनस्य तत्कामिकार्यत्वाभावादिति चेत्; न, लोक इव वेदेऽपि धात्वर्थस्यैव फलसाधनत्वेन कार्यत्वात् / न चाशुविनाशिनोधात्वर्थस्य चिरव्यवहितस्वर्गादौ न साधनत्वं अव्यवहितपूर्वसमयतिन एव साधनत्वादिति वाच्यम् / यतो येन विना काम्यमानं न सिद्धयति यदनन्तरं न कार्यान्तरापेक्षा तदेव स्वकृतियोग्यं कार्य कामिन उपदिश्यते। षन्ति', 'कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते' इत्यादिवचनेनेत्यर्थः। ननु विधिवाक्यप्रमेयस्य कार्यस्य ब्रह्मज्ञानशेषत्वे प्राधान्यं न स्यात्, ततश्च कृतिसाध्यं प्रधानं यत्तत्कार्यमिति तल्लक्षणविरोध इति नेत्याहन चेति / स्वप्रकरणपठितकारकाद्यपेक्षयैव प्राधान्यं तल्लक्षणम् / तच्च ब्रह्मज्ञानशेषत्वेऽपि न विरुध्यत इति सदृष्टान्तमाह--तद्वास्येति / पराभिमत कार्यमङ्गीकृत्येदमक्तम। वस्ततस्तदेव नास्ति मानाभावादित्याहधात्वर्थेति / लो * पदानां कार्ये व्युत्पत्तिमङ्गीकृत्यापि क्रियातिरिक्तकार्य न वैदिकपदार्थ इत्युपपादयति--तथाहीति / लोके धात्वर्थरूपकार्ये शक्तिग्रहमुपजीव्य वेदे तदतिरिक्तकार्यसिद्धिरिति शङ्कते-नन्विति / 'स्वर्गकामो यजेत' इति वाक्ये स्वर्गकामिनः कार्यमुपदिश्यते स्वर्गकामी च तदेव कार्यतया वेत्ति यत्काम्यमानस्य साधनं भवति / यागस्तु भणभङ्गरो न कालान्तरभाविस्वर्गसाधनमिति तदतिरिक्तमेव कामितिसाध्यतयोपदिश्यत इति वेदे सर्वत्र क्रियातिरिक्तकार्य लिङाद्यर्थ इति निश्चीयत इति भावः / लोके यथा भोजनादिक्रियैव फलसाधनमेवं वेदेऽपि यागादिक्रियैव कार्यतयोपदिश्यत इति दूषयति-न लोक इ त / यागादेः स्वर्गसाधनत्वे उक्तानुपपत्ति मुद्भाव्य निराकरोति-न चेति / काम्यसाधनमेव कामिकृतिसाध्यतयोपदिश्यत इति न नियमः। येन यागादेः कार्यताधीन रयात् / किं तु अन्यदेवेति हेतुमाह - यत इति / न कार्यान्तरापेक्षेति / न यत्नान्तरापेक्षेत्यर्थः / सुधामरीचिमण्डलादिव्यावृत्तये कृतियोग्यमित्युक्तम् / लोकेऽव्यवहितत्वस्यापि प्रवृत्यन्तर्गतत्वदर्शनात् तदप्यावश्यक मित्याशङ्कय गौरवान्नायमस्ति नियम
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy