________________ तृतीयः परिच्छेदः 263 किमिति न भवेत् / यदाहुः__ "प्रसरं न लभन्ते हि यावत् क्वचनमर्कटाः। नाभिद्रवन्ति ते तावत् पिशाचा वा स्वगोचरे" // इति / शास्त्राणामद्वैताभिप्राये मीमांसकसम्मतिः तेषामुक्ताभिप्रायाभावे तानेवेयमसर्वज्ञत्वपिशाच्यभिभवेत् श्रुतिविरुद्धार्थत्वात्, तच्छास्त्राणाम् / तदुक्तं भट्टपादः--इत्याह नास्तिकनिराकरिष्णुरात्माऽस्तितां भाष्यकृदत्र युक्त्या / दृढत्वमेतद्विषयश्च बोधः प्रयाति वेदान्तनिषेवणेन / इति / गुरुणाऽप्युक्तम्-'यदुक्तं अहंकारममकारावात्मन्यनात्माभिमानाविति"; मृदितकषायाणामेवैतत कथनीयं न कर्मप्रसङ्गिनामिति / गौतमोऽप्याह धर्मशास्त्रे "स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति" इति / तस्माद्वेदान्तव्याख्यातृणामृषीणामद्वैतब्रह्मप्रतिपत्तावकमत्यमेव / तदाहः "अपि वात्स्यायनादीनां ब्रह्मण्येव समन्वयः' इति / विधिभागस्य च ब्रह्मणि विनियोगः 'सर्वे वेदा यत्पदमामनन्ति'--'वेदश्च स्त्राणां भ्रांतिमूलत्वमेव श्रुतिविरुद्धार्थत्वादित्याह--तेषामिति / तेषामुक्ताभिप्राये तद्वचनमेव मानमित्य ह--तदुक्तमिति / भाष्यकृच्छब स्वामी देहाद्यात्मवादनिराचिकीर्षया तदतिरिक्तात्माऽस्तितामात्र युक्त्यादिभिर्बोधितवान् तदात्मविषयबोधस्तु दृढत्वं निर्विचिकित्सात्मतां वेदान्तश्रवणादिनैव यातीत्यर्थः। अहंकारममकारौ अहंममेति प्रत्ययावात्मन्यनात्माच्यासादित्येतत् मृदितकषायाणां विशुद्धचित्तानामेव कथनीयम् / नतु कर्मप्रसङ्गिनां रागादिना कर्मासक्तानाम्। अत्र गुरुणा हेतुरुक्तः--द्व पायनवचनादिति / तद्वचनं चोदाहृतं पञ्चिकायां शालिकानाथेन न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनाम् / जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् / / इति / सायुज्यमैक्यम्।। ततश्च मीमांसकानामपि वेदान्तवेद्याद्वितीयात्मतत्त्वमनुमतमेव, तच्च धर्मादिनिर्णयाय प्रवृत्तः तैस्तत्रानुपयोगान्न निरूपितमिति भावेनोपसंहरति-तस्मादिति / __तदुक्तं स्कान्दे - अनूद्य द्वैतमद्वैत प्रतिपादयति श्रुतिः। स्मृतीनां च पुराणानां भारतादेस्तथैव च // “तथा शैवागमादीनां तर्काणां च द्विजोत्तमाः। अद्वैतनिष्ठतैवोक्ता न द्वैतपरता सदा // '' इति / विधिभागस्य ब्रह्मप्रतिपत्तिशेषत्वे चित्तशुद्धयादिद्वारत्वे च कि मानमित्याकांक्षा. यामाह-विधिभागस्येति / विविदिषावाक्येनेति / 'तमेतं वेदानुवचनेन ब्राह्मणा विविदि. 34