SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ - 262 सटोकाद्वैतदीपिकायाम् - अत एव वेदान्ताः स्वत एव पुरुषार्थनिष्ठाः। एतच्च सर्व शास्त्रे निरूपितम्, न चात्र वादिनोऽत्यन्तं विवदन्त इति नात्र निरूप्यते। विधिपरवेदभागस्याप्यद्वैते तात्पर्यम् ... ___ एवं विधिभागोऽप्यतिब्रह्मावति प्राप्यैव जैमिन्याद्यभिप्राय इव विश्राभ्यति / जैमिन्यादेरद्वैतब्रह्मावगतौ तात्पर्याभावे प्रतारकत्वमसर्वज्ञत्वं वा भवेत् / न चैतद् युज्यते। न हि क्रियेव तत्त्वं विकल्प्यते। अस्ति च तत्प्रणीतशास्त्राणामधिकारसिद्धिदेहाद्यतिरिक्तस्थाय्यात्मादि निरूपणद्वारेण देहाद्यतिरिक्तब्रह्मनिरून पणे उपायभावः / गुण्यात्मनिरूपणं तु तदर्थमनुभवदर्शितभेदमाश्रित्य न त्वभेदव्यदासाय। किञ्चिच्च तत्प्रमेयं धर्मद्वारोपकारकम। .. न चैवं वेदान्तप्रमेयाद्वैतोदासीनब्रह्मावगतिः क्वचिच्छास्त्र उपपुज्यते। न चोपकारं विना शेषत्वम् / व्यासभगत्पादादेरसर्वज्ञत्वकल्पनाचाक्षपादादेः - वेदान्तानामद्वैतब्रह्मपरत्वमुक्त्वा विधिनिषेधपरवेदभागोऽपि तात्पर्येण जैमिन्यादिप्रणीतशास्त्रवदद्वैतब्रह्मपर एवेत्याह-एवमिति / दृष्टान्तासंप्रतिपत्तिमाशयाहजैमिन्यादेरिति / प्रतारकत्वमिति / यदि जैमिन्यादयो वेदान्तार्थमद्वैतं ज्ञात्वा भेदादिकं प्रतिपादयेयुः, तहि प्रतारकाभवेयुः, अज्ञात्वा चेदसर्वज्ञा भवेयुरित्यर्थः। ननु जैमिन्याद्युक्तप्रमेयमपितात्विकमेव तथा च न तेषां प्रतारकत्वमित्यत आह-- न हीति / सिद्धस्य वस्तुनः पुरुषभेदेन परमार्थतो विरुद्धानेकरूपत्वायोगादिति भावः / अद्वैतब्रह्मप्रतिपत्तौ जैमिन्यादिशास्त्रकृतोपकाराभावात् तस्य कथं तत्र पर्यवसानमित्यत . आह-अस्ति चेति / जैमिनिप्रणीतशास्त्रस्य धर्माधर्मनिर्णयतदनुष्ठानपरिवर्जनचित्तशुद्धयादिद्वारा मुमुक्षुत्वरूपाधिकारसिद्धिद्वारोपकारः। गौतमादिप्रणीतशास्त्रस्य च देहात्मवादादिनिरासेन तदतिरिक्तस्थाय्यात्मेश्वरस्थापनम्। कपिलशास्त्रस्य कर्तृत्वादिनिरसनेन त्वंपदार्थशोधनम्। पातञ्जलशास्त्रस्य च साक्षात्कारोपायचित्तैकाग्यद्वारोपकारकत्वमिति भावः। गौतमादिभिः परमात्मनः सगुणत्वमपि निरूपितम्, तस्य कुत्रोपयोग इत्यत आह--गुण्यात्म निरूपणमिति / तदर्थमिति / देहादिभेदसिद्धयर्थमित्यर्थः / एवमपि तत्र द्रव्यगुणादिव्युत्पादनं किमर्थमित्यत आह--किञ्चिच्चेति / वेदान्तशास्त्रस्यैव शास्त्रान्तरशेषता किं न स्यादित्यत आह-न चैवमिति / ननु वेदान्ता अपि द्वैतपरा एव व्यासादीनां तु भ्रान्त्याऽद्वितीये समन्वयाभिधान- : मिति चेन्न, तत्र वाधकमानाभावेन तज्ज्ञानस्य भ्रांतित्वायोगादित्यभिप्रेत्य विपक्षेतिप्रसङ्गमाह-व्यासोत / प्रसरं प्रवृत्ताववकाशम, जैमिन्यादीनामद्वैतेऽभिप्रायाभावे तच्छा
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy