SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 261 नवगमात् ततोऽनवगम्यमानस्यापि तदर्थत्वेऽतिप्रसङ्गात् / अध्याहारस्यान्याय्यत्वात्, कार्ययोग्यार्थानवगमे तदयोगात् / पदार्थमात्रसंसर्गस्य नियोगं विनाऽनुपपत्त्यभावात् / लोके सिद्धपि शब्दानां व्युत्पत्तेः। शास्त्रत्वं हितशासनात् प्रवृत्तिनिवृत्तिशासनस्य प्रत्येकसमुदायाभ्यामतल्लक्षणत्वात् / हितासंस्पृष्टतदुपदेशस्य शास्त्रत्वेऽतिप्रसङ्गाच्च, हितं च सुखमेव। अन्यत् तत्प्रसादात् तथेति तदात्मकं ब्रह्म हितम् / न वेदान्त इति / अध्याहृतकार्यपदान्वितात् तत्त्वमादिवाक्यात् कार्यावगममाशङ्क्याह-अध्याहारस्येति / पूषा प्रपिष्टभाग इत्यादाविवात्राप्यध्याहारोन्याय्य इत्यत आह - कार्येति / तत्र द्रव्यदेवतासंबन्धस्य विध्यविनाभूतस्यावगमात् तदुपपत्तये विध्यध्याहारो युक्तः, इह तु विध्यविनाभूतस्य कस्यचिद्नवगमाद् विधिकल्पनमनुचितमित्यर्थः / वैदिकपदार्थसंसर्ग एव विधि विनाऽनुपपन्नः तत्सल्पक इत्यत आह–पदार्थेति / लौकिकपदार्थसंसर्गवद्वेदिकपदार्थसंसर्गेऽपि कार्यान्वयनियमाभावेन तेन विनाऽनुपपत्त्यभावादित्यर्थः। लोके कार्यान्वितस्वार्थे पदानां व्युत्पत्तेलौकिकानामेव पदानां वेदेऽपि बोधकत्वाल्लोके वेदे वा कथं कार्यानन्वितार्थे शब्दस्य प्रामाण्यमित्यत आह-लोक इति / _ 'पुत्रस्ते जातः' इति वाक्यश्रवणानन्तरं पितरि हर्षमुपलभ्य तत्कारणं सिद्धपुत्रजन्मज्ञानं तद्धेतुश्च वार्ताहारप्रयुक्तशब्दएवेति निश्चितवतो भवति सिद्धेऽपि पदव्युत्पत्तिः। न च पितुहर्षकारणान्तरस्यापि संभवात् पुत्रजन्मैव तद्धेतुरिति निर्णयासंभव इति वाच्यम्; पुत्रजन्मनि हर्षहेतौ दृष्टो सति तत्सूचके पुत्रपदाङ्कितवाससि च सति हेत्वन्तरकल्पनायोगात् / तदुक्तम् "दृष्टचैत्रसुतोत्पत्तेस्तत्पदाङ्कितवाससा। वार्ताहारेणायातस्य परिशेषविनिश्चितेः // " इति / किञ्च 'गामानय' इत्यादिप्रयोगेष्वप्यन्वितस्वार्थ एव लाघवाच्छक्तिगोचरता गृह्यते कार्यान्वितस्याप्युपस्थितिमात्रेण शक्तिगोचरत्वेऽतिप्रसङ्गादिति भावः / प्रवृत्तिनिवृत्त्युपदेशस्यैव शास्त्रत्वाद् वेदान्तानां सिद्धपरत्वे प्रवृत्त्याद्यनुपयोगितया शास्त्रत्वं न स्यादित्यत आह-शास्त्रत्वमिति / अतल्लक्षणत्वादिति / प्रत्येकस्याव्याप्तत्वान् समुदायस्यासंभवादित्यर्थः / किञ्च त्वयापि हितसंसृष्टप्रवृत्त्यादिशासनस्य शास्त्रत्वं वाच्यम्, अन्यथा चैत्यवन्दनाद्युपदेशस्यापि शास्त्रत्वापातात् तथाच लाघवाद्धितशासनमेव शास्त्रमित्यप्रेत्याहहितासंस्पृष्टेति / पुत्रपश्वादेरेव हितत्वाद् ब्रह्मपरवेदान्तानां कथं हितशासनत्वमित्यत आह - हितं चेति / सिद्धार्थे शब्दप्रामाण्यस्य निपुणतरमाचायैरेवोपपादितत्वान्नात्र यत्यत इत्याह-एतच्चेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy