SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 258 सटीकाद्वैतदीपिकायाम् अपरोक्षार्थविषयज्ञानत्वात्, घटादिप्रत्यक्षवत्, न चेन्द्रियजन्यत्वमुपाधिः / त्वदभिमताजन्यप्रत्यक्षे सुखादिप्रत्यक्षे च साध्याव्यापकत्वात्। __ न च जन्यज्ञानस्य परोक्षत्वाभावे इन्द्रियजन्यत्वमुपाधिः। जन्यज्ञानस्य परोक्षत्वे लिङ्गजन्यत्ववत् तस्याप्यप्रयोजकत्वात् / वृत्तिज्ञानेऽपरोक्षार्थविषयत्वस्यवापरोक्षतारूपत्वेन तस्य परोक्षत्वाभावव्याप्तत्वाच्च / अत एव न शब्दाजन्यत्वमुपाधिः तत्त्वमस्यादिवाक्यजन्यज्ञानस्यापरोक्षत्वाभावेऽविद्यानिवृत्त्यभाबादनिर्मोक्ष सङ्गश्च / वाक्यत्वानुभानं चाप्रयोजकम्, उक्तप्रतिकूलतर्कपराहतं च, दशमस्त्वमसीत्यादौ व्यभिचारी च। दशमस्त्वमसोत्यादेरसरोक्षज्ञानजनकतानिरू :णं तथाहि-दशमस्त्वमसि' इति वाक्यश्रवणानन्तरं तत्राज्ञाननिवृत्तिः तत्पूर्व नेत्यनुभवसिद्धम् अपरोक्षज्ञानमेवाज्ञाननिवर्तकमिति विभागप्रक्रियायामुक्तम्। योगजधर्माकृष्टस्य चक्षुषो व्यवहितेनापि संयोगसंभवादिति भावः / अनुद्भूते इति / अनुभूते तु संस्कारजनकत्वसंभवात् स्मृतिरेवेति भावः / ईश्वरोपदेशजन्यत्वे लिङ्गमाह-अत एवे.ते / योगजधर्मप्रत्यासत्तिमदिन्द्रियादेव सर्वविषयज्ञानोत्पत्तावतीतादिज्ञानार्थे योगिनां ध्यानादिकं न स्यादित्यर्थः / योगजधर्मजन्यस्य ज्ञानत्वमेव नास्ति कूतोपरोक्षत्वादिकमित्यभिप्रेत्याह-धर्मविशेषेति / ज्ञानापरोक्षताया अर्थापरोक्षत्वप्रयुक्तत्वसाधनफलमाह-तस्मादिति / / अत्र वाक्यजन्यमित्यपि पक्षविशेषणं द्रष्टव्यम् / ततश्च ध्यानपरिपाकसहितमनः प्रसूतसाक्षात्कारमादाय न सिद्धसाधनम्। विधिवाक्यजन्यज्ञाने बाधवारणाय-तत्त्वमसीत्यादि / सुखादिप्रत्यक्ष इति / सिद्धान्ते तस्य साक्षिरूपतयेन्द्रियजन्यत्वाभावादित्यर्थः / जन्यज्ञानत्वे सति यत्र परोक्षत्वाभावः तत्रेन्द्रियजन्यत्वमिति पक्षधर्मावच्छिन्नसाध्यव्यापकोऽयनुपाधिरित्याशङ्क्याह-न च जन्येति / परोक्षज्ञानवदपरोक्षज्ञानस्यापि विजातीयानेककरणजन्यत्वसंभवादलिङ्गजस्यापि परोक्षत्ववदनिन्द्रियजन्यस्या तदभावोपपत्तेः, तत्त्वेनेन्द्रियजन्यत्वं प्रयोजकमित्याह-जन्येति / अपरोक्षार्थविषयता. व्यतिरेकेण ज्ञानापरोक्षताया दुर्निरूपत्वात् तस्य परोक्षत्वाभावेन व्याप्ततया पक्षेऽपि साध्यसिद्धेः, तत्रोपाधेः साध्यव्यापकत्वभङ्ग इत्यभिप्रेत्याह-वृत्तिज्ञान इति / उक्तयुक्तितः उपाध्यन्तरमप्ययुक्तमित्याह-अत एवेति / किञ्चौपनिषदे ब्रह्मणि शाब्दापरोक्षाभावे तदावारकाविद्यानिवृत्तिर्न स्यात् परोक्षज्ञानस्य तदनिवर्तकत्वात् ततश्चानिर्मोक्षापात इत्याह-तत्त्वमसीति / परोक्तप्रतिपक्षानुमानं दूषयति-वाक्यत्वेति / / व्यभिचारमेवोपपादयितुं दशमत्वादावपरोक्षज्ञानमावश्यकमित्याह-तथाहीति / दशमत्वादेरिन्द्रिययोग्यत्वात् तज्जन्य एव तत्साक्षात्कारोऽस्त्वित्यत आह-तत्रेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy