________________ तृतीयः परिच्छेदः 257 कृतं तदेव वा, ज्ञानापरोक्षत्वं तु चैतन्यस्य स्वरूपेणव, वृत्तेस्त्वपरोक्षार्थविषयत्वम्। न चापरोक्षार्थविषयत्वमेव ज्ञानस्यापरोक्षत्वं चैतन्यवृत्तिसाधारणमिति वाच्यम् चैतन्यस्य सुखसाक्षात्कारत्वाभावप्रसङ्गात् / अपरोक्षत्वस्यानुमित्यादावतिव्याप्तिनिरासः अत एवानुमित्यादि परोक्षः, लिङ्गादिजन्यवृत्त्यवच्छिन्नचंतन्यस्यार्थभिन्नत्वात् / अर्थमुखवृत्तिज्ञानापरोक्षत्वे सर्वमेवात्मविषयमनात्मविषयं वा वृतिज्ञानं यदंशेऽपरोक्षार्थं तदंशेऽपरोक्षमेव गुरुमत इव सर्वासामपि प्रतींतीनामात्माशे, अत एवापरोक्षवह्नयोष्ण्यगोचरज्ञानमात्रस्य स्पार्शनत्वप्रसङ्ग इति निरस्तम् / स्पर्शनेन्द्रियजन्यज्ञानस्यैव स्पार्शनत्वात् / न च योगिप्रत्क्षस्याप्रत्यक्षत्वप्रसङ्गः। तस्याऽप्युद्भूत विद्यमानपदार्थे व्यवहितेऽपि चक्षुरादिसंप्रयोगसंभवेन विषयचंतन्याभिव्यक्तः सत्वात् / अविद्यमानेऽनुभूते च न तद्भानं प्रत्यक्षम् / किन्तु योगाराधितपरमेश्वरोपदेशजन्यं परोक्षमेव / अत एव योगिनां व्यवहितार्थज्ञाने ध्यानादिकमर्थवद्भवति / धर्मविशेषजन्यज्ञानाभासो वा। तस्मात् तत्त्वमस्यादिवाक्यतात्पर्यविषयविषयं ज्ञानं न परोक्षम्, अर्थापरोक्षत्वमुपपाद्य ज्ञानापरोक्षत्वमुपपादयति-ज्ञानेति / स्वप्रकाशज्ञानस्य तद्रूपत्वमेवात्मापरोक्षप्रकाशत्वं अनात्मापरोक्षप्रकाशत्वं त्वपरोक्षार्थविषयत्वमेव / वृत्तेस्तु सर्वत्र तदेवापरोक्षमिति विभागः। सर्वत्रैकरूपापरोक्षत्वसंभवात् तद्भेदः किमर्थ इत्यत आह-न चेति / चैतन्यस्येति / चैतन्यसुखयोरभेदेन तस्य तद्विषयत्वाभावात्, तस्य सुखापरोक्षता न स्यादित्यर्थः। __ ज्ञानापरोक्षत्वस्यातिव्याप्तिरपि नेत्याह-अत एवेति / अस्यैवार्थमाहलिङ्गादीति / अनुमितिविषयवह्नयादेः स्वाकारवृत्तेरनिर्गमनेन तदभिव्यक्तप्रमातृचैतन्यतादात्म्याभावान्नापरोक्षत्वम्, ततः तदनुमितिरपि नापरोक्षा। एवं शब्दादिजन्यज्ञानमपीत्यर्थः। यदुक्तमपरोक्षार्थविषयज्ञानस्यापरोक्षत्वे आत्मादिविषयानुमितेरप्यपरोक्षत्वापात इति तदिष्टमित्याह--अर्थमुखेति / यदप्युक्तं स्पृष्टवह्न शब्दादिजन्यौष्ण्यज्ञानस्यापरोक्षत्वे तत्र स्पार्शनत्वमपि स्यादिति / तदयुक्तम् / स्पर्शनेन्द्रियजन्यत्वस्यैव तत्प्रयोजकत्वादित्याह--अत एवेति / एवं तहि योगिज्ञानस्य विप्रकृष्टविषयस्य प्रत्यक्षता न स्यादित्यत आह-न चेति / तस्य ज्ञानत्वमङ्गीकृत्य सन्निकर्षयोग्यविषये प्रत्यक्षमन्यत्र परोक्षम्, तदित्याह-- तस्यापीति / व्यवहितेऽपीति /