________________ 256 सटीकाद्वैतदीपिकायाम् चैतन्यतादात्म्यस्य सर्वदाऽसत्वात / अत एव देवदत्तस्यापरोक्षतादशायां सर्वस्यापि घटादिरपरोक्षः स्यादिति निरस्तम् / तदवच्छिन्नचैतन्यस्यान्यं प्रति भिन्नत्वात्। अत एव देवदत्तस्य घटापरोक्षत्वदशायां रसगुरुत्वादिकं चापरोक्षं स्यादिति निरस्तम्। चक्षुर्जन्यवृत्तः रसाद्यवच्छिन्नचैतन्यानभिव्यञ्जकत्वात् / तज्जन्याया एव वृत्तः तदपरोक्षताव्यञ्जकत्वात् / अत एव पर्वते वह्वयादिरपि नापरोक्षः सुखाद्यवच्छिन्नचैतन्यं च वृत्ति विनवाभिव्यक्तम्, तस्यानावृसाक्ष्यध्यासात् / तहि धर्मादिकमप्यपरोक्षं स्यादिति चेत् ? न, तस्यानुद्भूततयाऽप्रत्यक्षत्वात् / तस्मात् यज्जड मुद्भूतं यदा यदभिन्नचैतन्याभिन्नं तत्तदा तस्यापरोक्षत्वतादात्म्यात् भवत्यपरोक्षम्, अत एव सर्वज्ञत्वादि न जीवस्यापरोक्षम्, ईश्वरस्य सर्वमपरोक्षमेव / एवं च घटादेरपरोक्षत्वं वृत्तिप्रयुक्तम्, न त्वपरोक्षवृत्तिविषयत्व. प्रमात्रन्तरेण संबन्धाभावेन तं प्रत्यपरोक्षत्वायोगादित्याह--अत एवेति / ___ननु यदभेदेन घटाधिष्ठानचैतन्यमभिव्यक्तं तं प्रति तद्गतगुरुत्वादिकमप्यपरोक्षं स्यात्, अधिष्ठानचैतन्यस्यैकत्वादित्यप्ययुक्तम्, अवच्छेदकभेदेनाधिष्ठानचैतन्यस्यापि भिन्नत्वात्, घटाकारवृत्त्या तदनभिव्यक्तिश्चेत्याह-अत एवेति / धर्मिणः पर्वतस्यापरो क्षत्वेऽपि तत्र वह्नयादि परोक्षः तज्जन्यवृत्तेरभावेन तदधिष्ठानचैतन्यस्यानभिव्यक्तिश्चेत्याह-अत एवेति / सुखादेरपि किं घटादिवदेवापरोक्षता नेत्याह-सुखादीति / सुखादिसमानाधिकरणधर्मादेरपि प्रमातृचैतन्य एवाध्यासात् स्वतोपरोक्षता स्यादित्याशङ्कते-तहीति / साक्षिसंबन्ध[द्ध]स्यापि धर्मादेः परमते इव स्वरूपायोग्यत्वान्नापरोक्षतेति परिहरति- न तस्येति / आत्मचैतन्यस्यैव जडापरोक्षतारूपत्वेऽपि किञ्चिदेव कदाचित् कञ्चित् प्रत्यपरोक्षं भवतीत्यत्रानुगतप्रयोजकमाह-तस्मादिति / साक्ष्यभिन्नेश्वरसर्वज्ञत्वादिकमपि जीवं प्रत्ययोग्यत्वान्नापरोक्षमित्याह-अत एवेति / ईश्वरं प्रति सर्वस्य योग्यत्वात् तदधिष्ठानचैतन्यस्यानावृतत्वाच्च सवं तस्यापरोक्षमित्याह-ईश्वरस्येति / घटादेरैन्द्रियकवृत्तिमपेक्ष्यापरोक्षत्वे परमतान्न विशेष इत्याशङ्क्याह-एवं चेति / वृत्तिप्रयुक्तमिति / सुखादौ तदपि नेति वः।