SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ - द्वितीयः परिच्छेदः 255 प्रमाणाभावात्, तदपरोक्षत्वानुभवस्य तत्सत्तानुभवस्येव तदधिष्ठानात्मगोचरत्वात् लाघवेन सर्वप्रपञ्चनिष्ठापरोक्षताया एकत्वात् / आत्मातिरिक्तापरोक्षत्वं विनव घटादेरबाधितापरोक्षत्वानुभवसंभवे ततो भेदायोगाच्च / न च घटधर्मतया प्रतीयमानाऽपरोक्षता कथमात्मा तस्यावत्तित्वादिति वाच्यम्, अपरोक्षतातादात्म्यस्यैवानुभवात् तस्य चाधिष्ठानत्वेऽप्युपपत्तः। घटेऽपरोक्षत्वमिति कल्पितानुभवश्व भ्रम एव / तदतिरिक्तापरोक्षत्वस्य जडेऽसंभवात अपरोक्षज्ञानविषत्वलक्षणापरोक्षत्वस्य घटपटादिष्वनुगतत्वाभावाच्च / तस्माज्जडसत्तावदपरोक्षत्वमप्यात्मव। तदाहुराचार्याः "प्रमाणज्ञानादन्तरपरोक्षानुभवान्न विषयस्यापरोक्षता भिद्यत" इति / तहि स्वत्वमिव घटावेरपरोक्षत्वमपि सर्वदा स्यादिति चेत् ? न, प्रमातृ परोक्षत्वम् तु प्रतिविषयं भिन्नमिति गौरवमित्यभिप्रेत्याह-लाघवेनेति / आत्मानात्मनोरपरोक्षाकारबुद्धेरनुगतविषयत्वे संभवति तद्भेदो न युक्त इत्यभिप्रेत्याह-आत्मेति / घटापरोक्ष्यस्यात्मरूपत्वे तस्य तद्धमत्वानुभवविरोध इत्याशक्य लौकिकानां घटोऽपरोक्ष इत्यनुभवस्य तत्तादात्म्यमात्रविषयत्वेन तद्धर्मत्वागोचरत्वमित्याह-न च घटेति / व्युत्पनानां घटधर्मतयाऽपरोक्षत्वानुभवोऽन्धपरंपराप्राप्तो भ्रम एव / तत्वतोऽधिष्ठानचैतन्यांतिरिक्तापरोक्षत्वस्यासंभवादित्याह-घट इति / पराभिमतापरोक्षत्वस्य प्रतिविषयं भिन्नवेनानुगतापरोक्षाकारस्यालम्बनत्वायोगादधिष्ठानचैतन्यमेव सर्वत्रापरोक्षतेत्याहअपरोक्षेति / प्रमातृचैन्याभिन्नविषयाधिष्ठानचैतन्यमेव तदापरोक्ष्यमित्युपसंहरतितस्मादिति / अत्र पञ्चपादिकाकृवचनमुदाहरति तदाहुरिति / प्रमाणज्ञानान्न भिद्यत इति / न प्रामाणिकभेदवतीत्यर्थः / विषयस्थेति / विषयानुगतेत्यर्थः / अधिष्ठानचैतन्यमेव चेदपरोक्षता तर्हि घटादेः कदाचित् परोक्षता न स्यादिति शङ्कते-तीति / तत्तदाकारवृत्त्युपहिततया प्रमातृचैतन्याभेदेनाभिव्यक्तविषयाधिष्ठानचैतन्यमेव तदपरोक्षता। वृत्त्यभावदशायां तु प्रमातृचैतन्योपाध्यन्तःकरणानुपहितत्वेन तदभेदेनानभिव्यक्तत्वात् तदधिष्ठानचैतन्यं नापरोक्षतेति तदा प्रमातृव्यवहितत्वाद् घटः परोक्ष एवेत्यभिप्रेत्याह-न प्रमात्रिति / एवमप्येकप्रमातृचैतन्याभेदेनाभिव्यक्ताधिष्ठानचैतन्यतादात्म्यदशायां घटः सर्वेषामपरोक्षः स्यादधिष्ठानचैतन्यस्य साधारणत्वादिति चोद्यमयुक्तं देवदत्तान्तःकरणोपहितचैतन्यस्य प्रमात्रन्तराद् भिन्नत्वेन तत्तादात्म्यापन्नघटस्य 33
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy