________________ 254 सटीकाद्वैतदीपिकायाम् किञ्चित् परोक्षम्, किञ्चिदपरोक्षमस्तु / तस्मान्नापरोक्षत्वं जातिः / परोक्षत्वं न जातिः एवं परोक्षत्वमपि न जातिः / अनुभवत्वेन सार्यात्, अव्याप्यत्तित्वाच्च नापीन्द्रियाजन्यज्ञानत्वम्, तस्य नित्यज्ञानेऽतिव्याप्तेः। नापि लिङ्गादिजन्यत्वम् तस्य प्रत्पेकसमुदाययोरलक्षणत्वात्। तस्मान्नापरोक्षज्ञोनविषयत्वमर्थानामपरोक्षत्वम्, अर्थापरोक्षत्वनिर्वचनम् / कि तहर्थापरोक्षत्वम् उच्यते, आत्मसंविदपरोक्षत्वम् न च घटाद्यपरोक्षत्वेऽव्याप्तिः तदपरोक्षताया अपि तत्सत्ताया इवात्ममात्रत्वात् / तथाहि-आत्मा तावत् स्वतोऽपरोक्षः “यत्साक्षादपरोक्षादिति श्रुतेः / तत्र साक्षादिति ज्ञानक्रियाव्यवधानस्य निषिद्धत्वादात्मनि ज्ञानसुखापरोक्षत्वस्यासंभवाच्च / घटादिकं चापरोक्षात्मन्यध्यस्तमिति स एव तदपरोक्षता। ततो भेदे किञ्चिदहमर्थविषयज्ञानमपरोक्षं बाह्यविषयज्ञानं तु तद्व्यवधानात् परोक्षमित्यर्थः / प्रकृतमुपसंहरति-तस्मादिति / ज्ञाने परोक्षत्वमपि विषयाधीनमेवेति वक्तुं तस्यापि जातित्वं निराकरोति--स्वमिति / अव्याप्येति / तस्यापि प्रत्यभिज्ञानादावुक्तरीत्याऽव्याप्यवृत्तित्वादिति भावः / विषयाघटितोपाधिरूपत्वमपि तस्य निराकरोति-नापीति / प्रत्येकेति / लिङ्गाद्यकैकजन्यत्वस्याव्याप्तत्वात्, तत्समुदायजन्यत्वस्यासंभवादलक्षणमित्यर्थः / ज्ञानगतपरोक्षत्वापरोक्षत्वयोर्दुनिरूपत्वान्न तद्विषयत्वमर्थस्य परोक्षत्वमपरोक्षत्व चेत्यभिप्रेत्योपसहरति-तस्मादिति / स्वाभिमतमापरोक्ष्यं वक्तुमाकाङ्क्षामुद्भावयति-किं तहीति | प्रमातृचैतन्याभिन्नत्वमेवार्थापरोक्षत्वं तच्चात्मनः स्वतः, घटादेर्जडस्य तु तत्तादात्म्याध्यासादित्यभिप्रेत्याह-आत्मसंविदिति / उक्तमर्थं प्रपञ्चयति--तथा हीति | यत्साक्षादित्यस्याव्यवधानेनापरोक्षमित्यर्थः प्रतीयते तच्च घटादेरपि तुल्यमित्याशङ्क्याह-तत्रेति / घटादेयथा स्वाकारवृत्तिद्वारा प्रमातृचैतन्योपरागादपरोक्षता नैवमात्मनः किन्तु स्वत एवेति साक्षादित्यनेनोच्यते इतरथा तद्वैय्यादिति भावः। पूर्वोक्तरीत्यात्मन्यन्याधीनापरोक्षत्वस्यासंभवादपि तत्स्वत एवेत्याह-आत्मनीति / चिद्रूपात्मवाध्यासिकभेदाद घटाद्यपरोक्षतेत्याह-घटादिकमिति / घटोऽपरोक्ष इति घटसंबन्धितया प्रतीयमानापरोक्षता कथमात्मेत्यत आह-तदपरोक्षत्वेति / किञ्चाधिष्ठानचैतन्यस्य सर्वत्रैक्यात् तस्यैव जडापरोक्षतारूपत्वे लाघवं ज्ञानाधीना