SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 253 न चैवमलौकिकपदार्थकल्पनागौरवं शुतिरजताकाराविद्यावृत्तः सौषुप्तिकसुखादिपरामर्शनिमित्ताविद्यावृत्त्यादेश्च तथाभूतायाः प्रसिद्धत्वात् / प्रत्युत तवैवालौकिकज्ञानकल्पनमिति गौरवम् / कथं तहि ततोऽर्थावभासः इच्छाद्यवच्छेदकार्थस्यापि तदवच्छिन्नसाक्षिविषयत्वात् / न च तस्मिन् ज्ञाने मनःकरणमिति वाच्यम्, मनसः प्रमाश्रयत्वेन तदकरणत्वात् / बहिरर्थे मनसः संबन्धं विना तज्ज्ञानजनकत्वायोगाच्च। तत्र व्याप्ति साक्षात्करोमीत्यननुभवाच्च / अथवा धमस्य वह्निसंबन्धः स्वाभाविकः अनौपाधिकत्वात, पद्यस्यानौपाधिकं तत्तस्य स्वाभाविक संप्रतिपन्नवदित्यनुमानात्, तत्र व्याप्तिनिश्चयः / अव्यभिचारित्वं साध्यमिति न साध्याविशेषः। उपाध्यभावश्च प्रमाणरेव गृह्यते अत एवाभिहितव्याप्तिज्ञानार्थमेव ज्ञानलक्षणा प्रत्यासत्तिः कल्प्येति परास्तम्। कविकाव्यमूलवृत्तिरपि ज्ञानाभासः, पुण्यविशेषसमुदबुद्धप्राक्तनसंस्कारजन्यस्मृतिर्वाऽस्तु मनोमात्रजन्यज्ञानमपि चेत् कश्चिदभ्युपेयते तहि तदपि वक्ष्यमाणरीत्या विषयजन्यप्रत्यक्षस्य कुत्राप्यक्लृप्तत्वात् तत्कल्पने गौरवमित्याह-प्रत्युतेति / व्याप्तिविषयमनोवृत्तेरज्ञानत्वे कथं ततो व्याप्तिरित्याशङ्कते-कथमिति / न कथमपि मनोवृत्त्या ध्याप्तिसिद्धिः, किन्तु तदवच्छिन्नसाक्षिणैवेति सदृष्टान्तमाह -इच्छादीति / मनसोऽपि ज्ञानकरणत्वात् तत्करणत्वेन तस्य ज्ञानत्वसिद्धिरित्याशङक्याह-न च तस्मिन्निति / मनसः करणत्वेऽपि बाह्यज्ञाने करणत्वमयुक्तमित्याह-बहिरर्थ इति / मानसव्याप्तिग्रहस्थापरोक्षत्वमनुपलब्धिबाधितञ्चेत्याह-तत्रेति / / इन्द्रियासन्निकर्षदशायां धूमादिव्याप्तिग्रहो ज्ञानाभास इत्युक्तम्, संप्रति लिङ्गजन्यपरोक्षज्ञानमेव तदित्याह-अथवेति / स्वाभाविकत्वं नामानौपाधिकत्वमेवेति हेतुसाध्ययोरभेदमाशङ्क्याह-अव्यभिचारित्वमिति / अव्यभिचारित्वेनैव संबन्धस्यानोपाधिकत्वं ज्ञातव्यमिति परस्पराश्रय इत्याशङ्क्योपाध्यनुपलब्ध्यादिनापि तज्ज्ञानसंभवान् मेवमित्याह-उपाध्यभावश्चेति / यदनौपाधिकमित्युक्तव्याप्तिज्ञानं मनसैव जायते मनसश्च बाह्यार्थसंबन्धान्तराभावात् ज्ञानमेव प्रत्यासत्तितया तत्र कल्प्यमिति केनचिदुक्तमित्याहअन एवेति / तज्ज्ञानस्य मानसत्वाभावान्मानसत्वेऽपि तस्य ज्ञानाभासत्वाज्ज्ञानम्य प्रत्यासत्तित्वनिरासाच्चेत्यर्थः / कवीनां शरदादिवर्णनपरकाव्यमूलप्रत्ययार्थमलौकिकमन्निकर्षोऽभ्युपेय इत्याशङ्कयाऽऽह--कविकाव्येति / ज्ञानाभास इति / क्लृप्तकारणाजन्यत्वादिति भावः / ज्ञानत्वमङ्गीकृत्याह--पुण्येति / मनोमात्रजन्यस्य ज्ञानत्वं मनसो ज्ञानद्वारा बहिरर्थगोचरत्वं चाम्युपेत्य तज्जन्यज्ञानस्यापरोक्षत्वनियमाभावान्न तदर्थमलौकिकसन्निकर्षः कल्प्य इत्यभि प्रेत्याह--मनोमात्रेति / वक्ष्यमाणरीत्येति / प्रमातृचैतन्याव्यवधानात्
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy