________________ 252 सटीकाद्वैतदीपिकायाम् मनागतकार्यवृत्ति अनित्यवृत्तिनित्यधर्मत्वात् घटत्वादिवदित्यपि तदनुमानसंभवात्। तस्मान्न सामान्य ज्ञानं वा प्रत्यासत्तिः। अतः प्रत्यभिज्ञानादेः परोक्षापरोक्षात्मत्वादव्याप्यवृत्तित्वान्नापरोक्षत्वं जातिः / अव्याप्यवृत्तिरपि सा सुखाविप्रत्यक्षे न संभवतीत्युक्तम् / मनोमात्रजन्या व्याप्तिविषयिणी वृत्तिन ज्ञानं तस्याः परोक्षापरोक्षजाने क्लुप्तकारणाजन्यत्वात् / सहचारदर्शनजन्यसंस्कारस्य तन्मात्रस्मृतिहेतुतया व्याप्तिस्मृत्यजनकत्वात स्मृतेरनुभूतविषयत्वात् / यवाहुः, अनुभूतविषयाऽसंप्रतोषः स्मृतिरिति / किन्तु ज्ञानाभासः पदार्थान्तरम् / अन्तःकरणसमवेतं ज्ञानं सुखाद्यष्टगुणातिरिक्तान्तःकरणविशेषगुणभिन्नं पदार्थत्वात् सुखादिवत् / न चाप्रयोजकत्वम्, प्रत्यक्षसिद्धाया वृत्तः क्लप्तज्ञानकरणानिरूपणेन ज्ञानत्वानुपपत्तेः / सुखादिभिन्नत्वाच्च / निराकरणमुपसंहरति तस्मादिति / एतरच योगजधर्मस्याप्युपलक्षक्षणम्। तस्यापि प्रत्यासनित्वे मानाभावात्, तज्जन्यज्ञानस्यापि परोक्षापरोक्षात्मतया ज्ञानाभासात्मताया वक्ष्यमाणत्वात् / ज्ञानादेरप्रत्यासत्तित्वे प्रत्यभिज्ञादेः तत्तांशे इन्द्रियजन्यत्वासंभवात् तत्र संस्कारजन्यतया स्मृतित्वात् परोक्षत्वमेव / ततश्चापरोक्षत्वमव्याप्यवृत्तित्वान्न जातिरिति प्रकृतं निगमयति-अत इति / अव्याप्यवृत्तिजातिमङ्गीकृत्याप्याह-अव्याप्येति / न संभवतीति / तत्र तद्व्यञ्जकाभावात् ततश्च सुखादेरपरोक्षज्ञानविषयत्वेनापरोक्षत्वं न स्यादिति भावः। ननु भूयः सहचारदर्शने सति कालान्तरे विप्रकृष्टधूमादिष्वेव मानसो व्याप्तिग्रहो:परोक्षो जायते तव मते कथं तस्यापरोक्षत्वमिति ताह-मनोमात्रेति / न ज्ञानमिति / तथा च न तस्य परोक्षत्वमपरोक्षत्व वेति भावः / क्लृप्तकारणाजन्यत्वादिति / मनसो. कारणत्वादिति भावः। भूयोदर्शनजसंस्कारजन्यतया स्मृतिरूपज्ञानं किन्न स्यादित्यत आह–सहचारेति / व्याप्तिस्मृत्यजनकत्वादिति / नियतसहचारस्यैव व्याप्तित्वात् तस्य पूर्वमननुभवादिति भावः / तस्य ज्ञानत्वाभावे किं तदित्यपेक्षायामाह-किं त्विति / ___ बुद्धयाद्यतिरिक्तज्ञानाभासो मानशून्य इत्याशङ्कयाऽनुमानमाह-अन्तः करणेति / वृत्तिज्ञानभिन्नसाक्षिज्ञाने सिद्धसाधनतावारणाय-सुखादीत्यादि / पक्षीकृतज्ञानान्यत्वेन पक्षादन्यत्र साध्यसिद्धिः पक्षे तु विप्रतिपन्नज्ञानाभासान्यत्वेनैवेति तत्सिद्धिः। असन्निकृष्टव्याप्तिविषयवृत्तेर्ज्ञानादावन्तर्भावायोगात् तद्भेदसाधकहेतो प्रयोजकतेत्याह-- चेति / परोक्षापरोक्षज्ञानातिरिक्तज्ञानाभासाप्रसिद्धः तत्कल्पने गौरवमित्याशक्य हेत्वसिद्धया परिहरति-न चैवमिति / स्वमते कल्पनागौरवं परिहृत्य परमते असन्निकृष्ट