________________ तृतीयः परिच्छेदः 251 धूमत्वप्रकारकव्यभिचारसंशयः तेषु न विरुध्यते। तव मते संशयसमानप्रकारकनिश्चयस्यैव तद्विरुद्धत्वात् / अन्यथा वायो प्रसिद्धरूपाणामभावस्य निश्चितत्वेन वायुः रूपवान्न वेति संशयाभावप्रसङ्गात् / धूमत्वं वह्नि व्यभिचारिवृत्ति न वेति संशयात तत्संशयोपपत्तेश्च / धूमत्वं वह्नजन्ये नास्तीति निश्चयानन्तरं तत्संशमाभावेन तथैव वक्तव्यत्वात् / ___अन्यथा यत्र यदिन्धनप्रभवाः पञ्चव धूमव्यक्तयः ताश्च विशिष्यव वहिजन्यतयाऽनुभूताः तत्र तदिन्धनप्रभवधूमो वह्निव्यभिचारी न वेति संशयो न स्यात. अनिश्चितधर्म्यन्तरस्याभावात् / ज्ञानेच्छाकृतीनां समानविषयत्वं यद्यप्यपेक्षितं पुरस्थितरजतज्ञानात् पृष्ठदेशस्थरजते प्रवृत्त्यवर्शनात् तथापि तदर्थं न सामान्यप्रत्यासत्तिः / सन्निकृष्टरजतादौ तेन विनापि तत्संभवात् / आगामिपाकावेश्च अयंपाकः पाकपूर्वः पाकत्वादित्याद्यनुमानात् तसिद्धिः, न च चरमपाके व्यभिचारः। तस्य सर्वदाऽनुपस्थितेः। उपस्थितौ च तदन्यत्वेन विशेषणात् / पाकत्व विशेषाकारनिश्चयस्य सामान्याकारसंशयविरोधित्वे सामान्याभाववादे वायुः पृथिव्यादित्रयवृत्तिरूपरहित इति निश्चयानन्तरं वायुः रूपवात् न वेति संशयो न स्यादित्याह-अन्यथेति / निश्चितेऽप्यर्थे प्रामाण्यसंशयाहितसंशयवद् वह्निजन्यत्वेन निश्चितधूमेष्वेव धूमत्वस्य तदजन्यवृत्तित्वसंशयप्रयुक्तत्वेनाप्युक्तसंशयोपपत्तिरित्याहधूमत्वमिति / उक्तसंशयाहित एवायं संशय इत्यत्र तव्यतिरेकं गमकमाह-धूमत्वमिति / व्यभिचारसंशयस्याप्रसिद्धर्मिविषयत्वनियमे बाधकमाह-अन्यथेति / पञ्चैवेति / वस्तुतः इति शेषः। इच्छाप्रयत्नयोः स्वसमानविषययज्ञानजन्यत्वनियमादिच्छादिविषयभाविपाकादी सामान्यप्रत्यासत्तिजन्यज्ञानमावश्यकमिति चोद्यम् कैश्चिद् दूषितम्, इच्छादिजनकज्ञानस्य तत्समानप्रकारकत्वमेवापेक्षितम्, न तु समानविषयत्वमपीति / तत्र समानविषयत्वमप्यावश्यकमिति वदन् स्वयं प्रकारान्तरेण तत्परिहारमाह-ज्ञानेति / किमिच्छादिकं सर्वत्र सामान्यप्रत्यासत्तिजज्ञानपेक्षते उत पाकादावेव ? नाद्यः, इत्याह-सन्निकृष्टेति / आगामिपाकज्ञानस्यानुमानादपि संभवान्न द्वितीयोऽपीत्याहआगामीति / पाकपूर्व इति / पाकात् पूर्वभावीत्यर्थः / अनुपस्थितेति / ततश्च व्यभिचारानुपस्थितिदणायामनुमितिर्भवत्येवेति भावः / व्युत्पन्नानां चरमपाकोपस्थितिसंभवात्, कथं तेषामागामिपाकानुमानमित्यत आह-उपस्थितौ चेति / अनुमानान्तरादपि तेषां तदवगम इत्यभिप्रेत्याह-पाकत्वमिति / अलौकिकप्रत्यासत्ति.