SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 250 सटीकाद्वैतदीपिकायाम् विषयत्वे घटादिवदन्द्रियकत्वप्रसङ्गश्च / इन्द्रियजन्यज्ञानविषयत्वस्य लाघवेनेन्द्रिययकशब्दार्थत्वात्, इतोऽन्यादृशस्य गुरुशरीतयाऽतदर्थत्वात् / सामान्यलक्षणप्रत्यासत्यभावे कथं व्याप्तिग्रहः सकलधूमादिविषयः स्यादिति चेत् ? न, व्याप्तिग्रहस्य सनिकृष्टधूमादिमात्रविषयत्वात् / समानाकारतयाऽनुमितौ व्याप्तिग्रह उपयुज्यते, न तु समानविषयतयापि गौरवात् / सामान्यप्रत्यासत्यभावेऽपि व्याप्तिग्रहः .. यत्तु दशपञ्चवह्निधूमसहचारदर्शनानन्तरं धूमो वह्निव्यभिचारी न वेति संशयोऽप्रसिद्धधूमविषयः प्रसिद्धधूमानां वह्निजन्यत्वनिश्चयात् / संशये च धर्मीन्द्रियसन्निकर्यः कारणमिति तदर्थं सा प्रत्यासत्तिरिति / तन्न / प्रसिद्धधूमेषु धूमो वह्निजन्य इति निश्चये तादृशसंशयाभावात् / एतधूमो वह्निजन्य इति निश्चये च इन्द्रियगतक्रियादी व्यभिचारवारणाय-प्रत्यक्षम् / संमतव दति / इन्द्रियसंयुक्तघटविषयप्रत्यक्षवदित्यर्थः। अप्रयोजकत्वं निराकरोति-विपक्ष इति / बाधकान्तरमाह-धर्मादेरिति / ऐन्द्रियकत्वप्रसङ्गश्चेति / तथा चेन्द्रियकव्यवस्था न स्यादिति भावः। इन्द्रियसंयोगादिजन्यज्ञानविषय एवैन्द्रियक इत्युच्यते धर्मादिकं तु न तथेत्याशङ्कयाहइन्द्रियजन्येति / -- सामान्यस्याप्रत्यासत्तित्वे विप्रकृष्टधूमादीनां दुविज्ञेयतया सर्वोपसंहारवती व्याप्तिनं सिद्धयोदिति शङ्कते-सामान्ये ते / व्याप्ति ग्रहस्य सकलधूमविषयत्वाभाव इष्ट इति परिहरति-न व्याप्तीति / पर्वतीयवाप्तिग्रहाविषयत्वे ततः कथं तद्विषयानुमितिरित्यत आह -समानेति / अनुमितिः साध्यांशे यत्प्रकारिका तत्प्रक रकव्याप्तिग्रह एवानुमितिहेतुः। स च दृष्टकतिपयधूमादिव्यक्तिषु धूमो वह्निव्याप्य इत्येवमाकारेण धूमत्ववह्नित्वप्रकारक एव जायते तदुत्पत्त्यनन्तरं तत्संस्कारसहकृतव्याप्यतावच्छेदकप्रकारकधूमदर्शनात्, व्यापकतावच्छेदकप्रकारकवह्नयनुमितिसिद्धेाप्तिग्रहे सर्वोपसंहारो नापेक्षित इति भावः। - व्याप्तिसंशय एव सामान्यस्य प्रत्यासत्तित्वे मानमिति मणिकारोक्तं दूषयितुमनुवदति -यत्त्विति / भवतु, अदृष्टधूमविषयो व्याप्तिसंशयः तावता कथं सामान्यस्येन्दियप्रत्यासत्तित्वमित्यत आह-संशये चेति / धूमो वह्निजन्य इति निश्चयानन्तरमयं संशयः उत, एतद्भूमो वह्निजन्य इति निश्चयानन्तरम् ? आद्ये धूमो वह्निव्यभिचारी न वेति संशयोऽनुपपन्न इत्याह-तन्नेति / द्वितीये निश्चयसंशययोभिन्नप्रकारकत्वेनाविरोधात् दृष्टविषयं एवायं संशय इत्याहएतदिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy