________________ तृतीयः परिच्छेवः 249 तीति वाच्यम, विषमप्रलये तत्संभवात् / संभवति च विषमप्रलयः सुषुप्तेरिवावृष्टविपाकस्य योगपद्यनियमाभावात् / न च विषमप्रलये मानाभावः, क्षितिकर्बनुमानस्यैव तद्विषयत्वात् / न चैवं कनेकत्वगौरवं, ज्ञाननित्यत्वादिवत्तस्य फलमुखतयाऽदोषत्वात्। ननु सामान्यलक्षणादिजन्यप्रत्यक्षस्य कार्यायोग्यत्वान्न तदनुमानविषय इति चेत् ? न, प्रत्यक्षमात्रस्यैव तद्धेतुत्वात् / संयोगादिजन्यप्रत्यक्षस्यैव तद्धतुत्वे त्वदभिमतक्षितिकर्तृप्रत्यक्षमपि तदयोग्यं स्यात् / जीवकृतेः परमाणुविषयत्वाभावान्न ततः तसिद्धिरिति चेत् ? न, स्वरूपसंबन्धस्य भगवतः सर्वत्र जागरूकत्वात् / ततः त्याज्यो वाऽऽनुमानिकक्षितिकर्ता स्वीकर्तव्यो वाऽस्मदादेः परमाण्वादिसाक्षात्काराभावः। यधर्वाचीनः कश्चिम्माभूदानुमानिक ईश्वर इति ब्रूयात् तस्मै पूर्वोत्ता बाधकाः स्मारयितव्याः। तस्माच्छब्दाजन्यजन्यप्रत्यक्षं स्वजनकमात्रविषयम् / इन्द्रियजन्यप्रत्यक्षत्वात् / संमतवद् विपक्षे बाधकं चोक्तमेव धर्मावेरिन्द्रियजन्यज्ञान - मैवमित्याह-न चेतेि / विषमप्रलयस्य संभावितत्वेऽपि तत्साधकं मानं नेत्याशक्य इदमेवानुमान जीवकर्तृकं विषयीकुर्वतः तदुपपत्तये विषयप्रलयमपि साधयतीत्याहन च विषमेति / क्षित्यादेर्जीवकर्तृकत्वे नियामकाभावात्, सर्वजीवकर्तृकत्वं स्यात्, ततश्च गौरवमित्याशङ क्यानुमानप्रवृत्तेः पूर्वमज्ञातत्वादिदं गौरवं न दोषायेत्याहन चैवमिति / संयोगादिजन्यप्रत्क्षस्यैव कार्यहेतुत्वदर्शनान्न सामान्यप्रत्यासत्तिजन्यं तद्धेतुः, अतो 'न तद्वत्तयाऽर्थान्तरतेति शङ्कते-नन्विति / लाववात् प्रत्यक्षमेव कार्ययोग्यमिन्याहन प्रत्यक्षेति / ___ एवमनङ्गीकारे परस्यानिष्टमाह-संयोगेति / जीवज्ञानस्य परमाण्वादिगोचरत्वेऽपि तत्कृतेस्तदगोचरत्वाद् द्वयगुकादौ न जीवस्य कर्तृत्वं संभवतीति शङ्कते-जीवकृतेरिति / जीवकृतेः तन्त्वादाविव परमाण्वादावपि स्वरूपसंबन्धसंभवात् तद्विषयत्वं युक्तमित्याह-न स्वरूपेति / सामान्यप्रत्यासत्यभ्युपगमे परकीयेश्वरासिद्धिप्रसङ्गात्, तद्रक्षणाय सामान्यप्रत्यासत्तिरेव परित्याज्येत्यभिप्रेत्याह-तत इति / श्रुतिप्रामाण्यादेवेश्वरसिद्धिर्नानुमानात् , अतो न सामान्यप्रत्यासत्तिस्त्याज्येति वदन्तं प्रत्याह-यदीति / पूर्वोक्ता इति / पृष्ठदेशस्थे रजतेऽपि प्रवृत्त्यादय इत्यर्थः / सामान्यप्रत्यासत्तिजज्ञानाभावे उक्तत्तर्कानुग्राह्यं मानमाह --तस्मादिति / स्वमते दुःखादिगोचरशाब्दापरोक्षे परमते ईश्वरज्ञानादावनुमित्यादौ च बाधवारणाय पक्षविशेषणानि / सिद्धसाधनतावारणाय अन्यव्यावृत्तिपरं मात्रपदम् / उक्तशाब्दापरोक्षे व्यभिचारवारणाय-इन्द्रियजन्येति /