SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 248 सटीकाद्वंतदीपिकायाम् त्वाच्च / न च ज्ञानं लौकिकसन्निकर्षाश्रय एव प्रवृत्तिमुत्पादयतीति वाच्यम्, स्मृत्यादिना अप्रवृत्तिप्रसङ्गात् / इष्टतावच्छेदकप्रकारकज्ञानस्य स्वविशेष्ये इच्छाद्वारा प्रवृत्तिजनकत्वनियमाच्च / इदत्वप्रकारकतानविषय एव प्रवृत्तिरित्यप्यत एव परास्तम् / तद्रजतं रजतमिति वाऽवगच्छतामपि प्रवृत्तिदर्शनात् / देशविशेषस्थत्वज्ञानमपि प्रवृत्तौ कारणमिति चेत ? न, तस्यापि पुरस्थिते इदंत्वादिना गृह्यमाणे रजते सत्त्वात् / न चैवंभूतस्थले सामान्यप्रत्यासत्तिर्न प्रत्यक्षजनिकेति वाच्यम, स्वेतरकारणसमवधाने चक्षुःसंयोगादेरिव तस्यापि जनकत्वनियमात् / न च तत्र सामान्यं प्रत्यासत्तिरेव न भवतीति वाच्यम्, चक्षुःसंयोगादेरिवास्यापि क्वचि. दपि प्रत्यासत्तित्वे सर्वत्रापि तत्प्रसङ्गात् / अन्यथा क्वचिदपि प्रत्यासत्तित्वं न स्यात्। किं चैवं नानुमानिकक्षितिकर्तृज्ञानसिद्धिः। तदनुमानस्य परमाण्वादिविषयसाक्षात्कारादिमज्जीवविषयत्वात् / न च सर्गाद्यकाले ज्ञानादिमान जीवो न संभव लौकिकसन्निकर्षस्य प्रवृत्तिनियामकत्वान्नातिप्रसङ्ग इत्याशक्य तदभाववत्यप्रवृत्तिप्रसङ्गात् मैवमित्याह - न च ज्ञानमिति / किञ्च ज्ञानेच्छाकृतीनां कार्यकारणभावाय समानविषयकत्वस्यावश्यकत्वाद् देशान्तरीयरजतादेरपि प्रवर्तकज्ञानविषयत्वे तत्र तदधीमेच्छाप्रवृत्तिरप्यावश्यकीत्याहइष्टतेति / अत एवेति / ज्ञानेच्छाकृतीनां समानविषयत्वनियमादेवेत्यर्थः। व्यभिचारमध्याह-तद्रजतमिति / इष्टज्ञानमात्रं न प्रवर्तकम्, किन्तु तस्य देशविशेषस्थत्वज्ञानमपि तपभाषाच्च न सामान्यप्रत्यासत्तिजन्नानविषये प्रवृत्तिरिति शङ्कते-देशेति / इदन्त्वप्रमेयत्वादिना पुरोदेशे गृह्यमाणरजतान्तरे देशविशेषस्थज्ञानस्यापि सत्त्वात्, तत्रापि प्रवृत्त्यापात इति दूषयति न तस्यापीति / यत्र प्रवत्तिनास्ति तत्र सामान्यप्रत्यासत्तिविद्यमानापि न तज्ज्ञानमुत्पादयति, अतो न तत्र प्रवृत्तिरित्याशङ्क्यापेक्षणीयान्तराभावात् ततः तज्ज्ञानमावश्यकमिति दूषयति-न चेति / ननूक्तस्थले सामान्यस्य प्रत्यासत्तित्वमेव नास्ति येन तद् ज्ञानं भवेदिति नेत्याह-न च तत्रेति / किञ्च सामान्यप्रत्यासत्तिजज्ञानाभ्युपगमे जीवेऽपि प्रमेयत्वादिरूपेण सर्वविषयसाक्षात्कारसत्वात् तेन कार्यत्वादिहेतोरन्तरत्वान्न जीवातिरिक्तसर्वज्ञसिद्धिरित्याहकिञ्चैवमिति / सर्गाद्यकालीनकार्यस्यापि पक्षत्वात् तत्कारणतया जीवज्ञानासंभवान्नित्यज्ञानवदीश्वरसिद्धिरित्याशङ्कय, ब्रह्माण्डान्तरवर्तिजीवे तदापि तद्विषयज्ञानसंभवात्,
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy