________________ तृतीयः परिच्छेदः 267 स्यापि तव मते रजतत्वप्रकारकप्रत्यक्षविषयत्वात् / पुरस्थितरजतगोचरं प्रत्यक्ष लौकिकसन्निकर्षजन्यं न सामान्य प्रत्यासत्तिजन्यमिति वेत, तत किं लौकिकसन्नि: कर्षजन्यं सर्व न सामान्य प्रत्यासत्तिजन्यम्, तथासति सन्निकृष्टासनिकृष्टधूमादिगोचरव्याप्तिग्रहानुदयप्रसङ्गः, लौकिकसन्निकर्ष विना सामान्यस्याप्रत्यासत्ति एवं मानान्तरेण कल्पान्तरीयत्वेनावगते घटे कल्पान्तरीयं घटं चक्षुषा पश्यामीत्याद्यनुभवः स्यात्, न च सोस्तीत्यर्थः। ... वैशेषिकादिमते परिचयवतां कल्पान्तरीयं घटं चक्षुषा जानामीत्याद्यनुभवोऽस्तीति शङ्कते-सामान्येति / अन्येषां किं कल्पान्तरीये धटे चाक्षुषं ज्ञानं नास्तीति तदननुभवः उत तस्य सत्वेऽपि तथाननुभवः ? आद्य, सामान्यस्याप्रत्यासत्तित्वापात इत्यभिप्रेत्याहतत्किरिति / द्वितीयं दूषयति - अस्ति चेदिति / विप्रकृष्टघटादेः साक्षात्कारानुपलम्भस्य तत्सत्वविरोधित्वात् तदभाव एव न्याप्य इत्याह-तथा चेति / घटं चक्षुषा जानामीत्याधनुभव एव विप्रकृष्टघटप्रत्यक्षविषय इत्याशङ्क्याह - घटमिति / सत्यपि घटज्ञाने विप्रकृष्टघटज्ञानाभावानुभवादपि न तस्य तद्विषयतेत्याह-कल्पनान्तरीयमिति / इन्द्रियजज्ञानस्य स्वविषयसामान्यवत् सर्वविषयत्वे बाधकान्तरमाह-यदि चेति / तज्ज्ञान इति / गेहे प्रमेयमस्तीति ज्ञाने सति प्रमेयतया घटत्वादेरपि निश्चितत्वात् तत्संशयो न स्यादित्यर्थः / संशयस्य स्वसमानविषयप्रकारकनिश्चयविरुद्धत्वात् प्रमेयत्वप्रकारकनिश्चयेन घटत्वादिप्रकारकसंशयो न निवर्तते इन्याशङ्कयाह - न चेति / ___न च समानविषयनिश्चयस्य संशयविरोधित्वे प्रमेयवानयमिति निश्चये सतिं घटत्वादिसंशयो न स्यादिति वाच्यम्, समानप्रकारकनिश्चयस्य तद्विरोधित्वमतेऽप्यस्य प्रसङ्गस्य तुल्यत्वात् / तत्र सत्तानिश्चयरूपत्वाभावात् तदविरोधित्वमित्येतदप्यन्यत्रापि तुल्यम् / स्वरूपविशेषसत्तानिश्चयस्य संशयविरोधित्वे समानप्रकारकत्वस्य वैयर्थ्याच्चेति भावः। इन्द्रियजन्यज्ञानस्य सामान्यप्रत्यासत्या विप्रकृष्टविषयत्वे दोषान्तरमाहअपि चेति / - संयोगादिसन्निकर्षजन्यमेव प्रत्यक्षं स्वविषयप्रवर्तकं सामान्यप्रत्यासत्तिजं तु न तज्जन्यमतो न प्रवर्तकमित्यभिप्रेत्य शङ्कते-पुरस्थितेति / एवं वदतः कि लौकिकालौकिकसन्निकर्षजन्ययोः प्रत्यक्षयोर्भेदोऽभिप्रेत इति प्रश्नपूर्वकमेव भेदपक्षे दोषमाह-तत्किमित्यादिना। किञ्चन्द्रियसनिकृष्टस्यैव सामान्यस्य प्रत्यासत्तितया तज्जन्यप्रत्यक्षस्य लौकिकसन्निकर्षजन्यत्वमावश्यकम्, इत्यभिप्रेत्याह-लौकिकेति / सन्निकर्षद्वयजन्ययोरभेदेऽपि 32