SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 246 सटीकाद्वैतदीपिकायाम् बलाज्जनकत्वात्, विषयजन्यं हि ज्ञानं विषयस्येन्द्रियसन्निकर्षमपेक्षते तेन विना तदभावात् / न च परोक्षज्ञानं विषयजन्यम् / अतो न चक्षुःसन्निकर्षमपेक्षते / वस्तुतस्त्वतीते दण्डे "इदानीं चक्षुषा दण्डं जानामि' इत्यननुभवात, न तदंशे चक्षुर्जन्यत्वम्, किन्तु संस्कारजन्यत्वात्, स्मृतिरेव / 'दण्डं स्मरामि' इति चानुभवदर्शनात् / एनं प्रत्यभिज्ञापि तत्तांशे स्मरणमेव तदुपलक्षितैक्यांशे प्रत्यक्ष तस्येन्द्रियसन्निकृष्टत्वात् / तस्मान्न ज्ञानं प्रत्यासत्तिः एवं सामान्यमपि न प्रत्यासत्तिः। घटादेः कल्पान्तरीयत्वे प्रमाणान्तरेणोपस्थिते कल्पान्तरीयघटं चक्षुषा 'साक्षात्करोभि, जानामि' इति वाऽनुभवाभावात् / सामान्यलक्षणप्रत्यासत्तौ व्युत्पन्नानां तथा ज्ञानमस्तीति चेत्, तत् किमन्येषां तद्विषयं ज्ञानमेव नास्ति / अस्ति चेत, तहि सन्निकृष्टपटप्रत्यक्षमिव सर्वैरेवानुभूयेत तत्सामग्रीसत्वात् / तथा च योग्यानुपलब्ध्या अभाव एव निश्चीयते। "घटं जानामि, घटं साक्षात्करोमि' इत्यनुभवस्तु सन्निकृष्टघटविषय एव, न तु कल्पान्तरीयविषयः। कल्पान्तरीयं घटं न जानामीत्यनुभवाच्च / / यदि च प्रमेयमिति ज्ञानं सर्वविषयं स्यात्, तहि कदाचित् तद्ज्ञाने घटादिसंशयो न स्यात् / न च समानविषयप्रकारनिश्चयादेव संशयनिवृत्तिः लाघवेन समानविषयस्यैव निवर्तकत्वात् / अपि चैवं पुरस्थितरजत इव रजतत्वप्रकारकज्ञानात् पृष्टदेशस्थरजतेऽपि प्रवृत्तिप्रसङ्गः, ज्ञानस्य स्वविषये प्रवृत्तिजनकत्वात्, पृष्ठदेशस्थरजत तत्तादाविन्द्रियस्य संयोगादेरभावाद् ज्ञानस्यापि तत्राप्रत्यासत्तित्वे तदंशज्ञानस्येन्द्रियजन्यत्वानुपपत्तिरित्याशक्य तदंशे ज्ञानस्य परोक्षत्वात् तस्य प्रत्यासत्ति विनापि संस्कारादिसहकारि बलादिन्द्रियजन्यत्वोपपत्ते तदित्याह-न चैवमिति / तत्ताद्यंशे ज्ञानस्य परोक्षत्वेऽपि कथं प्रत्यासत्ति विनेन्द्रियजन्यत्वमित्यत आह-विषयजन्यमिति / असन्निकृष्टविषयांशेऽपि ज्ञानस्य चाक्षुषत्वमङ्गीकृत्यैतदुक्तम् / वस्तुतस्तु तदेव नास्ति तदंशे संस्कारजन्यत्वेन स्मृतित्वादित्याह-वस्तुतस्त्विति / न चैतत् परस्योत्प्रेक्षामात्रं तदंशे स्मृतित्वस्यानुभवसिद्धत्वादित्याह-दण्डमिति | प्रत्यभिज्ञापि संस्कारजन्यत्वादिन्द्रियजन्यत्वाच्च स्मृतिप्रत्यक्षरूपैवेत्याह-एवमिति / साधकाभावाद् बाधकसद्भावाच्च न ज्ञानं प्रत्यासत्तिरित्याह-तस्मादिाते / परोक्षे कुत्रापि नापरोक्षज्ञानमित्यभिप्रेत्य सामान्यस्यापीन्द्रियप्रत्यासत्तित्वं निराकरोतिएवमिति / सामान्यस्य प्रत्यासत्तित्वे यथा मानान्तरेण देवदत्तीयत्वेनावगते घटे चक्षुषा ज्ञाते देवदत्तीयं घटं चक्षुषा साक्षात्करोमि तं चक्षुषा जानामि इत्याद्यनुभवः,
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy