SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 245 विदुषामपि तदंशे विषयसत्वे ज्ञानत्व इवापरोक्षत्वेऽप्यनुभवप्रसङ्गात् / न हि विद्यमानार्थानुभवे विद्वत्तापि हेतुः। " अत एवानुमितेरिन्द्रियप्रत्यासत्यभावेन तदजन्यत्वात् न प्रत्यक्षत्वम् / 'दण्ड्ययमासीत् इति ज्ञानस्य दण्डांशे ज्ञानलक्षणाप्रत्यासत्तिसत्त्वादिन्द्रियं जनकमिति तत्र तत् प्रत्यक्षमिति निरस्तम् / मन इन्द्रियजन्यत्वेप्यनुमितेः तव परोक्षत्ववच्चक्षुरादिजन्यस्यापि तदविरोधात् / दण्डाद्यंशे 'साक्षात्करोमि इत्यनुव्यवसायाभावेन मनसोऽनुमिताविव मनआदेरिन्द्रियत्वेनाजनकत्वात् / ____ न च चक्षुर्जन्यत्वमपरोक्षत्वव्याप्यमिति नियमः, मनोजन्यत्वस्येवाप्रयोजकत्वात, व्यभिचारप्रमाणस्योभयत्रापि तुल्यत्वात् / / ___ न च परोक्षज्ञानस्य ज्ञानकरणकत्वनियमः, मनः करणकानुमितौ तदभावात् / अन्यथाऽनुमितेरपि ज्ञानलक्षणप्रत्यासत्तिजन्यत्वसंभवेनापरोक्षत्वप्रसङ्गात् / तत्र चेन्न ज्ञानं प्रत्यासत्तिः कल्पकाभावात्, तहि प्रकृतेऽपि तुल्यम् / न चैवं चक्षुषो जनकत्वानुपपत्तिः। परोक्षज्ञानेऽसन्निकृष्टस्यापि सहकारि तदनुभवाभावेऽपि वैशेषिकादिमते व्युत्पन्नस्य मम तादृशानुभवोऽस्तीयत आहत्वदनुभवस्येति / किञ्च प्राकृतैरप्यलौकिकांशे विद्यमानत्वस्यानुभवात्, तत्रापरोक्षत्वमप्यस्तीति चेदनुभूयेतेत्याह-विदुषामिबेति / नन्विन्द्रियजन्यत्वमेव * ज्ञानेऽपरोक्षत्त्वजातिनियामकं तच्चालौकिकांशेऽपीति तत्रापि सा जातिरस्ति अनुमित्यादौ च तदभावान्नातिप्रसंग इत्यत आइ--अत एवेति / अतः शब्दार्थमाह-मनइति / इन्द्रियत्वेनेन्द्रियजन्यत्वमपरोक्षत्वनियामकं अनुमित्यादेश्च नेन्द्रियत्वेन मनोजन्यत्वं किन्तु मनस्त्वेनैवेत्या राड् क्याऽऽह-दण्डाद्यंश इति / अनुमित्यादौ साक्षात्त्वानुभवाभावेन मनस इन्द्रियत्वेन तज्जनकत्वाभावो वक्तव्यः स चालौकिकांशे चक्षुरादेरपि.तुत्य इत्यर्थः / चक्षुर्जन्यत्वस्यापरोक्षत्वेन व्याप्यत्वात् अलौकिकांशे व्याप्यवति व्यापकेनापि भवितव्यमित्याशङ क्याह-न चेति / व्यभिचारप्रमाणस्येति / मनोजन्ये सर्वत्र साक्षात्करोमीत्यनुभवाभावात् यथा तज्जन्यत्वस्य साक्षात्वेन व्यभिचारः, एवं चक्षुर्जन्ये सर्वत्र तादृशानुभवाभावात् तज्जन्यत्वस्यापि साक्षात्त्वे नब्यभिचार इति भावः / ज्ञानकरणकत्वस्य' परोक्षत्वव्याप्यत्वात् इन्द्रियजन्यालौकिकांशेऽपि तदभावात् परोक्षत्वाभाव इत्याशक्याह-न च परोक्षेति / अलौकिकप्रत्यासत्तिजन्यापरोक्षत्वेऽतिप्रसङ्गमाहअन्यचेति / अनुमितेः पूर्वं वह्वयादिज्ञाने सत्यपि न तस्येन्द्रियप्रत्यासत्तित्वं मानाभावादित्याशक्य तुल्यमुत्तरमित्याह-तत्र चेदिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy