SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 244 सटीकाद्वैतदीपिकायाम् स्यापरोक्ष इत्यनुभवप्रसङ्गाच्च / अलौकिकांशे तज्ज्ञानं संयोगजन्यं न भवतीति चेत् ? न, तस्य संयोगजन्यज्ञानाभिन्नत्वे तत्र तदभावासंभवात् तत्र तज्जन्यत्वस्य सत्त्वात्, औपाधिकभेदोऽस्तीति चेत् ? न, तव मतेऽव्याप्यवृत्तिभेदाभावात्, तत्प्रतियोगिकतर्मिकभेदस्य पारमार्थिकस्यासंभवात् / अत एवेन्द्रियजन्यत्वमर्थजन्यत्वमलौकिकप्रत्यक्षान्यत्वं वा लौकिकप्रत्यक्षत्वमित्यपि न संभवति / एवमपरोक्षत्वमप्यव्याप्यवृत्तित्वान्न जातिः, प्रत्यभिज्ञानादेः तत्तांशे परोक्षत्वात्, तदंशे ज्ञानस्यास्मदभिमतपरोक्षत्वलक्षणयुक्तत्वात्; अपरोक्षत्वलणरहितत्वाच्च / त्वदुक्तसंयोगादि षोढा प्रत्यासत्तिजन्यत्वाभावाच्च / साक्षात्कारत्वं जातिः। साच षोढा प्रत्यासत्तिजन्येऽन्यत्राप्यस्तीति चेत् तनुमित्यादावपि स्यात् / ननु तत्र साक्षात्कारोमोत्यननुभवान्न साक्षात्कारत्वमिति चेत्, तहि 'दण्ड्ययमासीत्' इत्यादिज्ञानेष्वपि देवदत्ते दण्डं साक्षात्करोमीत्यननुभवात् तदंशे तदभाव एव न्याय्यः। विदुषां दण्डांशेऽपि तत्र साक्षात्कारत्वानुभवोऽस्तीति चेत, तत् किमन्ये न विद्वांसः त्वदनुभवस्य वटयक्षानुभववदप्रमाणत्वात्, विदुषाम शादभिन्नो भिन्नोवा ? आद्ये नोक्तव्यवस्थासंभव इत्याह न तस्येति / द्वितीयं शङ्कते-औपाधिकेति / किमौपाधिकोऽनिर्वचनीयः पारमार्थिको वा ? नाद्यः, परैस्तदनङ्गीकारादित्यभि प्रेत्याह-तवेति / द्वितीये दोषमाह-तत्प्रतियोगिकेति / पारमार्थिकभेदस्य प्रतियोगिवृत्तित्वे वस्तुनो द्वैरूपेणानकान्तवादप्रसङ्गात्, न तस्य प्रतियोगिवृत्तित्वमिति भावः / एकस्मिन् ज्ञाने लौकिकालौकिकांशभेदाभावेनोत्तरकल्पत्रयमुक्तदोषादसंभवाच्चायुक्तमित्याह-अत एवेति / लौकिकत्वस्य जातित्वे यद्बाधक तदपरोक्षत्वेऽपि तुल्यमिति तदपि न चावित्याह --एवमिति / अपरोक्षत्वस्याव्याप्यवृत्तित्वे हेतुमाह-प्रत्यभिज्ञानादेरिति / आदिपदेन सुरभिचन्दनमित्यादिज्ञानं गृह्यते / मतद्वयेऽपि प्रत्यभिज्ञानादेः तत्तांशे परोक्षत्वमेव युक्तमित्याह-तदंश इति / प्रमातृचैतन्यव्यवहितविषयत्वं परोक्षत्वं तस्य तत्तांशे सत्वादव्यवहितविषयत्वरूपापरोक्षत्वस्य चाभावादित्यर्थः। षड्विधप्रत्यासत्तिजन्यत्वस्य मन्मते साक्षात्वजात्यनियामकत्वात् तदन्यत् तत्तांद्य शेऽपि सास्तीति शङ्कते-साक्षात्कारत्वमिति / संयोगादिजन्यत्वस्यानियामकत्वेऽतिप्रसङ्ग इत्याह-तीति / 'साक्षात्करोमि' इत्यनुभवस्यैव तन्नियामकत्वादनुमित्यादी च तादृशानुभवाभावात्, तत्रापि तदभावो युक्त इति शङ्कते-नन्विति / अलौकिकप्रत्यक्षांशे प्राकृतानां तथाऽनुभवाभावेऽपि विदुषां तदनुभवोऽस्तीति शङ्कते–विदुषामिति / वेदव्याख्यातॄणां तीर्थकरणामपि तादृशानुभवाभावात्, मैवमित्याह-तत् किमिति / वेदार्थविदुषां
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy