________________ तृतीयः परिच्छेदः 243 तहिं सन्निहितघटादाविवासन्निहितेऽपि तस्मिन्नपरोक्षोऽयमित्यनुभवप्रसङ्गः तव तत्राप्यपरोक्षज्ञानसंभवात् / न हि काशीस्थं पदार्थ शब्देन जानन जानामीत्यनुभवन्नपि ममेदानी काशीस्थः पदार्थोऽपरोक्ष इत्यनुभवति, सन्निहितेऽप्यन्धादेः शब्दादिना जानतो जानामीत्यनुभवतोऽप्यपरोक्षः शुक्ल इत्यननुभवाच्च / ननु लौकिकप्रत्यक्षविषय एवापरोक्ष इत्यनुभूयते, न त्वलौकिकप्रत्यक्षविषय इति चेत् ? न, शुक्तिरजतादेरपरोक्ष इत्यनुभवात् / तव मते तत्प्रत्यक्षस्याप्यलोकिकत्वात् / लौकिकत्वमपि न जातिः, तस्याव्याप्यवृत्तित्वात्, त्वया जातेरव्याप्यवृत्तित्वानभ्युपगमात् / नापि संयोगादिजन्यत्वं सुखादिप्रत्यक्षे तदसंभवात्, निरवयवात्मना संयोगादेरसंभवात् / लौकिकालौकिकात्मकप्रत्यक्षविषयस्य सर्व सामान्यादिप्रत्यासत्तिवादे दूषणान्तरमाह--किं चेति / ज्ञानसंभबादिति / प्रमेयत्वादिप्रकारकापरोक्षज्ञानस्य विप्रकृष्टेऽपि संभवादित्यर्थः / ननु सन्निहितेऽप्ययमपरोक्ष इत्यनुभवस्यापरोक्षत्वाकारेण सन्निहितविषयत्वमिष्टमेव / देशान्तरीयेऽपरोक्ष इत्याद्यनुभवस्तु देशान्तरीयत्वादेरज्ञानान्नास्तीत्याशक्य तर्हि शब्दादितो देशान्तरीयत्वेनावगते वस्तुनि प्रमेयतया साक्षात्कृते तथानुभवः स्यात्, न च सोऽस्तीत्याह-नहीति / अपरोक्षोऽयमिति विशिष्यानुभवे विषयस्य सन्निहितत्वमपेक्षितमित्याशक्याह-सन्निहितेऽपीति / सामान्यादिप्रत्यासत्तिजज्ञानस्य लौकिकप्रत्यक्षत्वाभावान्न तद्विषयः तादृशानुभयोग्यः / किन्तु लोकिकप्रत्यक्षविषय एव तथेति शङ्कते-नन्विति। भ्रमविषयस्य रजतादेः कस्यापि मते लौकिकप्रत्यक्षविषयत्वाभावेऽपि रजतमपरोक्षमित्यनुभवान्न तत्तत्र प्रयोजकमित्याह -शुक्तीति / किञ्च प्रत्यक्षे लौकिकत्वं कि जातिः संयोगादिषडविधप्रत्यासत्त्यन्यतमजन्यत्वं वा इन्द्रियजन्यत्वं वा, अर्थजन्यत्वं वा अलौकिकप्रत्यक्षान्यत्वं वा ? नाद्यः, इत्याहलौकिकत्वमपीति / घटादिप्रत्यक्षे सन्निहितघटाद्यंशएव लौकिकत्वम् न त्वसन्निहितांश इत्यव्याप्पवृत्तित्वान्न तज्जातिरित्यर्थः / न द्वितीय इत्याह-नापीति / असंमवादिति / निरवयव आत्मनि मनः संयोगासंभवादसंयोगे तस्मिन् दुःखादिसमवायासंभवाच्चेत्यर्थः / ततश्च सुखादिकमपरोक्षमित्यनुभवो न स्यादिति भावः। किञ्च जन्यप्रत्यक्षमात्रस्य संयोगादिजन्यत्वादलौकिकत्वेनाभिमतप्रत्यक्षविषये. ऽप्यपरोक्षताऽनुभूयेतेत्याह-लौकिकेति / जन्यप्रत्यक्षस्य लौकिकांश एव संयोगजन्यत्वं न त्वलौकिकांश इति शङ्कते-अलौकिकेति / किमलोकिकांशः संयोगादिजन्यलौकिकां