SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 242 सटीकाद्वैतदीपिकायाम् अत एवेन्द्रियत्वेनेन्द्रियजन्यं ज्ञानमपरोक्षम तद्विषयत्वमर्थस्यापरोक्षत्वमिति निरस्तम्, अहमादौ तदभावात् / अनुगतावच्छेदकज्ञानं बिना तस्य दुर्ग्रहत्वाच्च / नापि जातिः / प्रकाशस्यकव्यक्तित्वेन तदयोगात् / वृत्तिगता सेति चेत, तर्हि वृत्त्यादेरपरोक्षत्वानुपपत्तिः। अपरोक्षज्ञानविषयत्वाभावात् / न च प्रकाशवृत्त्योरेका जातिरस्ति / सदसव्यक्त्योरेकजात्यनुपपत्तेः / अपरोक्षत्वजातेः प्रकाशाश्रयत्वे व्यवहितवह्नयादेरपि सन्निहितघटादिवदपरोक्षत्वप्रसङ्गाच्च / त्वदभिमतापरोक्षज्ञानविषयत्वस्योभयत्राविशेषात् / पराभिमतजातेवृत्त्यनिरूपणेन दुनिरूपणाच्च। किञ्च साक्षात्कारत्वं जातिः, तदाश्रयविषयत्वमेव यद्यर्थस्यापरोक्षत्वम्, अत्र ज्ञानापरोक्ष्ये इन्द्रियत्वेनेति विशेषणं व्यर्थमित्यभिप्रेत्यार्थापरोक्ष्ये पूर्वोक्तदोषमाह--अहमदाबिात / किञ्चअनेकज्ञानेषु अनुगतावच्छेदकं विनेन्द्रियत्वेनेन्द्रियजन्यत्वमेव दुहं तदवच्छेदकं चान्यद् दुनिरूपमित्यभिप्रेत्याह--अनुगतेति / ज्ञाने त्वपरोक्षत्वं नाम जातिस्तदाश्रयज्ञानविषयत्वमर्थस्थापरोक्षत्वमिति मतं दूषयति-नापीति / किमपरोक्षत्वजातिबॅत्तिगता तदतिरिक्तप्रकाशगता वोभयगता वा ? न द्वितीय इत्याह--प्रक शस्येति / आद्यमनुवदति--वृत्तीति / अहमर्थगतज्ञानेच्छादेरपरोक्षवृत्तिविषयत्वाभावादपरोक्षता न स्यादिति दूषयति-तहीं।त / तृतीयं दूषयति-न चेति / किञ्चास्मिन् पक्षे सर्वस्य दृग्यस्यापरोक्षत्वापात इत्याह- अपरोक्षत्बेति / अविद्यातिरिक्तजातेयक्तिषु वृत्त्यनिरूपणादपरोक्षत्वजात्यसंभव इत्याह-- पराभिमतेति / जातिः किं कात्स्न्येन वर्तते एकदेशेन वा नाद्यः, व्यक्त्यन्तरे तदभावप्रसङ्गात्, न द्वितीयः संयोगादिवद् यावदाश्रयोपलम्यं विना प्रत्यक्षत्वापाताज्जातावेकदेशाभावाच्च / किं च जातिः स्वविशिष्टे वर्तते स्वोपलक्षिते वा ? नाद्यः; आत्माश्रयप्रसङ्गात् / न द्वितीयः; अतिप्रसङ्गात् / न चेन्द्रियजन्यत्वस्योपलक्ष्यतावच्छेदकत्वान्नातिप्रसङ्ग इति वाच्यम्, परमत ईश्वरज्ञाने तदभावप्रसङ्गात् / न च लिङ्गाद्यजन्यज्ञानत्वं तदवच्छेदकमिति वाच्यम्; अपरोक्षत्ववैशिष्ट्यं विना ज्ञाने लिङ्गादिजन्यत्वाभाववैशिष्ट्यस्यासंभवेनान्योन्याश्रयात् / चैतन्यातिरिक्तनित्यपदार्थे मानाभावाच्च, इत्यादियुक्तिभिः पराभिमतजातेदुनिरूपत्वादित्यर्थः /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy