________________ तृतीयः परिच्छेदः 241 अन्यथा योगजसाक्षात्कारादेरप्रामाण्यापत्तेः / एतेन प्रमातारमपेक्ष्य देशतः कालतः स्वरूपतो वा विप्रकृष्ट एव परोक्षज्ञाननियमात् स्वप्रकाशप्रमातृचैतन्येनाभिन्नत्वेनाविप्रकृष्ट प्ररोक्षधीरेव न युक्तेति निरस्तम् / प्रत्यक्षेऽर्थे लिङ्गादप्यपरोधीप्रसङ्गात्; विप्रकृष्टतत्ताव्यप्त्यादौ प्रत्यभिज्ञाव्याप्तिज्ञानयोः परोक्षत्वापाताच्च। ___ तस्मात् ब्रह्मसाक्षात्कारो निदिध्यासनसहकृतेन मनसा जायते / यन्मनसा न मनुत इति श्रुतिस्तु मनसैवानुद्रष्टव्यमिति श्रुतिविरोधेनापक्वमनोविषया। अन्यथा शब्दस्य करणत्वे "यतो वाचो निवर्तन्ते" इति श्रुतिविरोधात्, तस्मान्न वेदान्तादपरोक्षधीरिति। शाब्दापरोक्षसिद्धान्तः ___ अत्रोच्यते--अर्थस्यापरोक्षत्वं नेन्द्रियजज्ञानविषयत्वम, अहमर्थतद्धर्मज्ञानादेः तदभावप्रसङ्गात्, ज्ञाने स्वपरविषयत्वाभावात्, तद्ग्राहकेन्द्रियतत्संबन्धाभावाच्च / कामिनीसाक्षात्कारस्यापि परोक्षविषयत्वादेवाप्रमात्वमित्यभ्युपगमे परोक्षविषययोगजसाक्षात्कारोऽप्यप्रमा स्थादित्याह--अन्यथेति / प्रमात्रपेक्षया विप्रकृष्टत्वस्य परोक्षधीगोचरत्वप्रयोजकत्वात् स्वप्रकाशप्रत्यगभिन्नब्रह्मणो देशतः कालतः स्वरूपतो वा विप्रकृष्टत्वाभावान्न तस्य' परोक्षधीगोचरतेत्याशंक्य अतिप्रसङ्गेन दूषयतिएतेनेति / स्वरूपतो वेति / अननुभूतस्वरूपे धर्मादावित्यर्थः / शब्दस्य ब्रह्मणि साक्षात्काराजनकत्वे कथं तत्रापरोक्षधीः तदभावे वा कथमविद्यानिवृत्त्यादिपुरुषार्थसिद्धिरित्यत आह -तस्मादिति / ब्रह्मणो मानसप्रत्यक्षगोचरत्वे “यन्मनसा न मनुते येनाहुर्मनोर्मतं तदेव ब्रह्म त्वं विद्धि" इत्यादिश्रुतेः का गतिरित्यत आह-यन्मनसेति / अपक्वमनोविषयेति / ध्यानादिपरिपाकासहकृतमनोविषयेत्यर्थः / शाब्दसाक्षात्कारगोचरत्वपक्षे तु श्रुतिविरोधो दुष्परिहर इत्याह-अन्यथेति / पूर्वपक्षमुपसंहरति–तस्मादिति / अपरोक्षार्थविषयत्वमेव जन्याज्ञानस्यापरोक्षत्वम् / अर्थापरोक्षत्वं च प्रमातृसंविदभिन्नत्वमिति निरूपयितुं पराभिमतमर्थापरोक्ष्य दूषयति-अर्थस्येति / तदभावप्रसङ्गादिति / अहमर्थतद्धर्मयोः केवलसाक्षिभास्यत्वेन. इन्द्रियजन्यज्ञानाविषयत्वादिति भावः। अहमर्थगतज्ञानस्य स्वविषयत्वेनानुव्यवसायविषयत्वेन वाऽऽपरोक्ष्यमित्याशक्य तयोनिरस्तत्वात् मैवम्, इत्याशयेनाह-ज्ञान इति / अहमर्थानाविन्द्रियजज्ञानाभावे हेत्वन्तरमाह-तदग्राह केति / मनसः प्रमातृत्वेनानिन्द्रियत्वादात्मनि निरवयवे तत्संयोगायोगाञ्चेति भावः / मनस इन्द्रियत्वाभावादेव लक्षणान्तरमयुक्तमित्याह-अत एवेति /