________________ 240 सटीकाद्वैतदीपिकायाम् धीविषयत्वमेवापरोक्षत्वम् / तत्र चैतज्ज्ञानविषयत्वेन तदुक्तावन्योन्याश्रय इति ज्ञानान्तरविषयत्वेन तदास्थेयम् / तथा च केषांचिदपरोक्षे स्वर्गादौ अस्माकं शब्दादपरोक्षधीः स्यात् / एकपुरुषाभिप्राये च प्रत्यक्षगोलिंगादितोऽपरोक्षधीप्रस. ङ्गात् / तस्माद् ये विरुद्ध ज्ञानत्वावांतरजाती परोक्षत्वापरोक्षत्वे तदाश्रययोर्ज्ञानयोभिन्नत्वात् / यश्चैको विषयः तत्र विरुद्धजात्यभावात, विरुद्धजात्याधारज्ञानविषयत्वस्यकस्मिन् चाक्षुषस्पार्शनविषयत्वस्यैव संभवात् / प्रत्यक्षविषयमपि शाब्दज्ञानं परोक्षमेव / किञ्च धमिमात्रस्य प्रत्यक्षत्वाभिप्राये प्रत्यक्षे घटादावयं गुरुः पर्वतोऽग्निमानित्यादि शब्दादप्यपरोक्षधीप्रसङ्गः। ___ अथ स्वप्रकाशाभिप्रायम्, ‘दशमस्त्वमसि' इत्यादौ तदसंभवात् / वाक्य. वैययं च / एतेनापरोक्षे ब्रह्मणि परोक्षधीः परोक्षे कामिन्यादावपरोक्षधीरिव प्रमाणं न स्यादिति निरस्तम् / स्मृतेऽनुभववदनुमितगोरिन्द्रियेणापरोक्षधीवत् परोक्षतत्ताया अपरोक्षप्रत्यभिज्ञावदपरोक्षज्ञानविषयेऽर्थे परोक्षत्वजात्याधारज्ञानोदयेऽप्यपरोक्षस्य परोक्षत्वेनानुल्लेखात प्रामाण्योपपत्तेः / कामिनीसाक्षात्कारस्तु बाधादप्रमाणम् / परोक्षत्वम, उत ज्ञानान्तरविषयत्वेन ? तत्राद्यम्, अन्योन्याश्रयेण दूषयन् द्वितीयं परिशेषयति-तत्र चैतदिति / तदप्यतिप्रसङ्गेन दूषयति-तथाचेति / यत्समवेतज्ञानविषयत्वप्रयुक्तमर्थापरोक्ष्यं तज्ज्ञानस्यैवापरोक्षत्वप्रयोजकत्वम्, अतो नोक्तातिप्रसङ्ग इत्याशङ्कयातिप्रसङ्गान्तरमाह-एकेति / ज्ञानापरोक्षत्वस्योपाधित्वायोगेन जातित्वात् तस्य परोक्षत्वजात्या विरुद्धत्वेन तव्याप्यशाब्दत्वेनापि विरोधात्, शाब्दज्ञानं प्रत्यक्षविषयमपि परोक्षमेवेत्याह-तस्मादिति, प्रत्यक्षस्य कथं परोक्षशाब्दधीगोचरत्वमित्यत आह-यश्चेति / किञ्च यो यो धर्मी प्रत्यक्षः, तद्विषयज्ञानमपरोक्षमित्यभिप्रेतम्, उत स्वप्रकाशतया यत् प्रत्यक्षं तद्विषयं ज्ञानं प्रत्यक्षमिति / आद्यमतिप्रसङ्गन दूषयति-किञ्च धर्मिमात्रस्येति द्वितीयमनूद्य दूषयति-अथेत्यादिना / आत्मनः स्वप्रकाशत्वे बोधकमानानपेक्षत्वात् तत्र वाक्यं व्यर्थं स्यादित्याहवाक्येति / “यत्साक्षादपरोक्षाद् ब्रह्मेति श्रुतेरपरोक्षरूपे ब्रह्मणि कथं शब्दाद् परोक्षज्ञानं प्रमाणं परोक्षकामिन्यादावपरोक्षज्ञानस्येव परोक्षज्ञानस्य प्रमात्वायोगादिति चोद्यं वक्ष्यमाणविधया निरस्तमित्याह-एतेनेति / कामिन्यादावपरोक्षज्ञानस्य बाधितविषयत्वादेव अप्रमात्वम्, न तु परोक्षेऽपरोक्षज्ञानत्वात् परोक्षेऽपि बहुशोऽपरोक्षप्रमादर्शनाद् ब्रह्मणि च परोक्षज्ञानस्यापि यथार्थत्वात् प्रमात्वोपपत्तिरित्याह-स्मृत इत्यादिना /