SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 239 विशेष्यस्य प्रत्यक्षत्वेऽपि विशेषणे दशमत्वे परोक्षधोरेव / न चैवं प्रतीतिकोलाहलो निरवधिकः स्यात, तत्राप्यपरोक्षेति मदङ्गीकारादिति वाच्यम् / न तावच्छब्दस्यापरोक्षधीहेतुत्वं स्वाभाविकमतिप्रसङ्गात् / नाप्यपरोक्षविषयनिमित्तम् / एवं च शाब्दज्ञानमपरोक्षम, अपरोक्षार्थमात्रविषयज्ञानत्वात् सुखादिज्ञानवदिति वक्तव्यम्, तन्न युक्तम, जीवाः परमात्मनो न भिद्यन्ते आत्मत्वादित्यादिलिङ्गजन्याया अप्यापरोक्ष्यापातात् / अपरोक्षार्थविषयत्वलक्षणनिरासः किश्चार्थस्याप्यपरोक्षत्वं न तावदपरोक्षधीरूपत्वम, ब्रह्मणि सत्त्वेऽपि दशमत्वादौ तदभावात्, चैत्रस्यापरोक्षज्ञाने मैत्रस्य शब्दादिना साक्षात्कारादर्शनाच्च / नाप्यपरोक्षव्यवहारविषयत्वम् / व्यवहारापरोक्ष्यस्यापरोक्षार्थविषयत्वरूपत्वेऽन्योन्याश्रयापातात। अपरोक्षोऽयमित्येवंरूपव्यवहारविषयत्वे त्वज्ञानावृते ऐक्ये तदभावात् / तत्र न प्रकाशत इत्यादिव्यवहारार्थमेवावरणकल्पनात् / उक्तव्यवहारयोग्यत्वरूपत्वे भित्तिव्यवहिते घटे शब्दादपरोक्षधीप्रसङ्गात् / तस्मादर्थस्यापरोक्ष दिति भावः / दशमत्वादेः प्रमातृगतत्वेन तदव्यवहितत्वात् तत्रापि वाक्योत्थधीरपरोक्षेति मयाङ्गीकारात्, त्वया कथं तत्र परोक्षधीरेवेत्युच्यत इत्याशङ वयाह-- न चेति / शब्दजन्यज्ञानस्यापरोक्षत्वं शब्दस्यापरोक्षज्ञानजनकत्वस्वभावप्रयुक्तम्, उतापरोक्षार्थविषयत्वप्रयुक्तम् ? नाद्यः, शव्दे तादृशस्वभावाभावादित्याह-न ताबदिति / द्वितीयं दूषयति--नापीति / अत्र च शाब्दापरोक्षत्वेऽपि विप्रतिपन्नं प्रत्यपरोक्षविषयत्वेन तत्साधनीयम्, तच्चायुक्तम्, अपरोक्षविषयानुमित्यादेरप्यपरोक्षत्वापातादित्याह-एवं चेति / ज्ञानापरोक्ष्यप्रयोजकापिरोक्ष्यमेव दुनिरूपमित्याह-किञ्चेति / किमर्थापरोक्ष्यमपरोक्षधीरूपत्वम्, उत, अपरोक्षव्यवहारविषयत्वमपरोक्षधीविषयत्वम् वा ? नाद्यः, इत्याह - न ताबदिति / अतिप्रसक्तत्वादपि नैतद् ज्ञानापरोक्षत्वप्रयोजकमित्याहचैत्रस्येति / द्वितीयमपवदति नापीति / किं व्यवहारस्यापरोक्षत्वमपरोक्षार्थविषयत्वमपरोक्षोऽयमित्येवंरूपत्वं वा ? आये अर्थापरोक्षत्वसिद्धौ व्यवहारापरोक्ष्यसिद्धिः, तत्सिद्धौ चार्थापरोक्षत्वसिद्धिरिति परस्पराश्रयः स्यादित्याह-व्यबहारेति / द्वितीयेऽपि तादृशव्यवहारविषयत्वमर्थापरोक्ष्यं तद्योग्यत्वं वा ? आये जीवपरक्ये तादृशव्यवहारविषयत्वाभावादपरोक्षता न स्यादित्याह-अपरोक्षोऽयमिात / द्वितीयमतिप्रसङ्गन दूषयति-उक्तेति / तृतीयं परिशेषयति-तस्मादिति / अत्र यज्ज्ञानस्यापरोक्षविषयत्वेनापरोक्षत्वं साध्यते तज्ज्ञानविषयत्वेन किमर्थस्या 31
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy