________________ सटीकाद्वैतदीपिकायाम् शब्दस्य विचारसहकृतस्य साक्षात्कारहेनुतानिराक्ष: ननु परोक्षज्ञानजनकस्यापि विचारसहकारिबलादपरोक्षज्ञानजनकत्वं न विरुद्धयते / संस्कारस्येवेन्द्रियसाहाय्येन प्रत्यभिज्ञाहेतुत्वमिति चेत् ? न, शाब्दत्वापरोक्षत्वजात्योरेकत्रावृत्तेरुक्तत्वात्, विचारस्य सिद्धान्ते ज्ञानाहेतुत्वाच्च / न च विचाराधीनः प्रतिबन्धकाभावः तद्धेतुः, तस्याप्यहेतुत्वात् / ननु वाक्यत्वहेतुः 'दशमस्त्वमसि' इत्यादिवाक्ये व्यभिवारीति चेत् ? शब्दापरोक्षवादे माध्वस्य पूर्वपक्षः अत्र नवीनः / किं तत्र स्वात्मनो दशमत्वं पश्यतः शब्देनापरोक्षधीः उतापश्यतः ? नाद्यः, तस्य स्पृष्टवर्वाह्न प्रति प्रयुक्तात् “वह्निहष्णः' इत्यादिवाक्याद जन्यज्ञानस्येव परोक्षत्वेऽपि प्रत्यक्षसिद्धार्थानुवादित्वमात्रेण प्रत्यक्षत्वाभिमानात्, अन्यथोष्णत्वे शब्दात् स्पार्शनत्वजातिमद्भानं स्यात् / द्वितीयेऽपि यदीन्द्रियव्यापारोऽस्ति, तदा रत्नतत्व इवोपदेशसहकृतेन्द्रियेजैव प्रत्यक्षधीः। यदि तु स नास्ति तदा "धर्मवांस्त्वमसि, पर्वतोऽग्निमान्" इत्यादाविव सांकर्यान्न शाब्दज्ञाने साक्षात्त्वमिति भावः। शब्दादपरोक्षज्ञानाभावे हेत्वन्तरमाहशब्दस्येति / केवलशब्दस्य परोक्षज्ञानजनकत्वेऽपि सहकारिविशेषसहितस्यापरोक्षज्ञानहेतुत्वं संस्कारस्येव न विरुनयत इति शङ्कते - नन्विति / प्रत्यभिज्ञायाः संस्कारजन्यत्वे बाधकाभावात् तत्र तद्युक्तं प्रकृते तु जातिसांकर्यापाताद् मैवमित्याह -- शाब्दत्वेति / वेदान्तविचारादेरसंभावनादिप्रतिबन्धनिवृत्तिफलकत्वाभ्युपगमात् तस्य ज्ञानजनकशब्दसहकारित्वमप्ययुक्तमित्याह-विचारस्येति / तर्हि प्रतिबन्धकाभावद्वारा तस्य सहकारित्वमाशङ क्याह-न चेति / अहेतुत्वादिति / तव मत इति शेषः। तत्त्वमस्यादिवाक्यं नापरोक्षधीजनकम् वाक्यवादित्यत्र व्यभि वारं शङ्कते-नन्विति / दशमस्त्वमसीति वाक्यमपि नापरोक्षधोजनकम्, अतो न व्यभिचार इति विकल्पपूर्वकमाहकिं तत्रेति / वह्निरुष्ण इति वाक्यनज्ञानस्यापि प्रत्यक्षत्वमेव कि न स्यादित्यत आह- अन्यथेति / स्वर्शनविषयजन्यप्रत्यक्षस्य स्पार्शवजातिमत्वनियमादिति भावः। अपश्यत इति कल्पे दशमत्वादाविन्द्रियव्यापारोऽस्ति न वा ? आये, इन्द्रियमेव तज्ज्ञानकारणम्, शब्दस्तु सहकारिमात्रमित्याह--द्वितीयेऽपीति / द्वितीये दोषमाह-- यदि बिति / परोक्षधीरेबेति / इन्द्रियासन्निकृष्टस्य प्रमातृव्यवहितत्वेनापरोक्षत्वायोगा