________________ तृतीयः परिच्छेदः 237 किञ्च तव मते संस्कारत्वेन संस्कारजन्यत्वं स्मृतित्वे प्रयोजकमस्तु प्रत्यभिज्ञाने तु प्रत्यासत्तिविधयैव संस्कारो हेतुः, किं न स्यात् ? न च विशिष्टज्ञानेऽव्यवहितविशेषणज्ञानस्य हेतुत्वात, प्रत्यभिज्ञायां स्मृतिः कारणं कल्प्यत इति वाच्यम; विशिष्टज्ञाने विशेषणज्ञानस्याहेतुत्वात; अनुमितौ विशेष्यज्ञानस्य पक्षज्ञानत्वेनेव प्रत्यभिज्ञायां तत्ताज्ञानत्वेनैव तस्य हेतुत्वात्, तव मतेऽपि स्मृताविवानुभवेऽपि विशेषणज्ञानत्वेनैव हेतुत्वोपपत्तेश्च / न च विनष्टादपि दण्डज्ञानाद् दण्डस्मरणं विना दण्डीति ज्ञानप्रसङ्ग इति वाच्यम्; अप्रमुष्टसंस्कारस्य प्रत्यभिज्ञाया इव तस्येष्टत्वात, प्रमुष्टसंस्कारस्य सहकारिविरहादेव तद्विरहात्। न चानिवार्योऽयमनुभवकलहः, व्यतिरेकनिश्चयाभावे लाघवस्यैव कारणताग्राहकस्य नियन्तुः सत्वात्। किञ्च त्वन्मतेऽनुमितेर्मनः करणकत्वात् तत्रातिव्याप्तिः / तस्मात् साक्षात्वं जातिरेव / शब्दस्य परोक्षज्ञानजनकत्वनियमावधारणाच्च / संस्कारस्य संस्कारत्वेनैव स्मृतिजनकत्वेऽपि न प्रत्यभिज्ञायाः स्मृतित्वापातः तस्य तत्तांशे इन्द्रियप्रत्यासत्तित्वेनैव तज्जनकत्वादित्याह-किञ्चेति / / प्रत्यभिज्ञायाः तत्ताविशिष्टविषयत्वात् तदव्यवहितपूर्वक्षणे विशेषणज्ञानतया तत्तास्मृतेरावश्यकत्वात् सैव प्रत्यासत्तिरिति पराभिप्रायं दूषयति-न च विशिष्टेति / तत्ताज्ञानाभावे प्रत्यभिज्ञानुदयात्, तत्र कथं न विशेषणज्ञानं हेतुरित्याशङ्क्याहअनुमिताविति तत्ताज्ञानत्वेनैवेति / तथा च पूर्वानुभवस्यैव तत्त्वेन हेतुत्वान्न मध्ये स्मृतिः कल्पनीयेति भावः / विशेषणज्ञानस्य हेतुत्वमङ्गीकृत्यापि तस्याव्यवहितत्वं नापेक्षितमित्यभिप्रेत्याहतव मत इति / व्यवहितस्यापि विशेषणज्ञानस्य विशिष्टधीहेतुत्वेऽतिप्रसङ्गमाशङ्क्यापवदति-न चेति / किमुबुद्धसंस्कारवतः तादृशज्ञानमापाद्यते तद्रहितस्य वा ? आये इष्टापत्तिमाह-अप्रमुष्टेति / द्वितीयं दूषयति-प्रमुष्टेति / तत्तास्मृत्यनन्तरमेव प्रत्यभिज्ञा जायत इति मयोच्यते, त्वया च तां विनापीति तत्र कथं निर्णय इत्याशक्य पूर्वानुभवस्याकारणत्वानिश्चयात् तस्यैव कारणत्वकल्पने लाघवं, मध्ये स्मृतिकल्पने तु धर्मिकल्पनागौरवमिति न्यायस्यैव निर्णायकत्वान्मैवमित्याह-न चानिवार्य इति / ज्ञानाकरणक ज्ञानं प्रत्यक्षम्, इत्यस्यातिव्याप्तिमप्याह-किञ्चेति / यत्र स्मरणरूपपरामर्शादनुमितिः तत्र व्यापारवत्कारणान्तराभावेन मनस एव कारणत्वादिति भावः। साक्षात्वस्योपाधित्वनिरसनफलमाह-तस्मादिति / ततश्च