________________ 236 सटीकाद्वैतदीपिकायाम् अयुक्तं चेदं लक्षणम्, अनुभूते प्रत्यतिज्ञा नतरत्रेति स्वतन्त्रान्वयव्यतिरेका. भ्यामनभवस्य प्रत्यभिज्ञानकरणत्वात् / संस्कारस्य व्यापारत्वाच्च / न च तत्र तत्तास्मृतिरेव कारणम, न पूर्वानुभव इति वाच्यम, अन्वयव्यतिरेकविरोधात् / मध्ये स्मृतिकल्पनायां प्रमाणाभावाच्च / प्रत्यभिज्ञाने स्मृतिलक्षणातिव्याप्तिः अथ प्रत्यभिज्ञानस्य संस्कारजन्यत्वे स्मृतित्वापत्तिः / न चेन्द्रियाद्यसहकृतसंस्कारजन्यत्वस्यैव स्मृतित्वप्रयोजकत्वम्, गौरवादिति चेत् ? न, प्रत्यभिज्ञाने संस्कारस्याकारणत्वे पूर्वानुभवस्यान्वयव्यतिरेकसिद्धतद्धेतुत्वबाधप्रसङ्गात् / अजनकव्यवहितस्य जनकत्वायोगात् / तस्मादिन्द्रियाद्यसहकृतसंस्कारत्वेन स्मृतौ संस्कारः कारणं स्मृत्यजनकसंस्कारत्वेनानुभव इति कल्प्यम्, तस्मात संस्कारोऽनुभवजन 6: जन्यज्ञानजन्यातीन्दियधर्मत्वात्, अदृष्टवत् / अन्यथानुभवस्य प्रत्यभिज्ञाने अन्वयव्यतिरेकनियमयोरसति बाधकेऽन्यविषयत्वप्रसङ्गात् / न चानेनैव हेतुना संस्कारस्याभिज्ञाहेतुत्वमपि स्यादिति वाच्यम्, अभि. ज्ञाया अतीतानुभवेनान्वयव्यतिरेकयोरसत्वेन विशिष्य व्याप्त्यभावात् / अङ्गीकारं परित्यजति-अयुक्तमिति / प्रत्यभिज्ञाया ज्ञानकरणत्वात् तत्राव्याप्ति तावदाह -अनुभूत इति / व्यापाराभावान्नपूर्वानुभवः करणमित्याशङ्कयाह-संस्कारेति / अव्यवहितत्वात् स्मृत्यैव प्रत्यभिज्ञोपपत्तौ न व्यवहितानुभवः तत्कारणमित्याशक्याहन च तत्रेति / अनुभवान्वयव्यतिरेको तत्तास्मृतावुपयुक्ताविति न तद्विरोध इत्याशङ्क्याह-मध्य इति / संस्कारजन्यस्य स्मृतित्वनियमात् प्रत्यभिज्ञायां तद्योगात् तज्जन्या तत्तास्मृतिरावश्यकीत्यभिप्रेत्य' शङ्कते--अथेति / __अनुभवस्यान्वयव्यतिरेकावगतप्रत्यभिज्ञाकारणत्वपरित्यागायोगात् तदुपपत्तये संस्कारस्य जनकत्वमावश्यकम्, अन्यथा संस्कारजनका नुभवस्य प्रत्यभिज्ञाकारणत्वायोगादिति परिहरति-न प्रत्यभिज्ञान इति / संस्कारस्यानुभवेऽपि कारणत्वान्न तस्य स्वरूपेण स्मृत्यादिकारणत्वम् किन्त्वन्यथेत्याह-तस्मादिति / तकितेऽर्थेऽनुमानमाह-संस्कार इति / सिद्धान्ते दुःखादी व्यभिचारादाहअतीन्द्रियेति / गुरुत्वादौ व्यभिचारवारणाय जन्यज्ञानजन्येति / धर्मपदं च भावपर तेन संस्कारध्वंसादौ न ब्यभिचारः / न चैवमपि स्मृतिजनकसंस्कारे व्यभिचार इति वाच्यम्, तस्याप्यनुभवजनकत्वयोग्यत्वादिति भावः / विपक्षे बाधकमाहअन्यथेति / संस्कारोऽभिज्ञारूपानुभवजनकः जन्यज्ञानजन्यातीन्द्रियधर्मत्वाददृष्टवदित्याभास. साम्यमाशङ्क्यास्य विपक्षे बाधकाभावेनाप्रयोजकत्वान्नैवमित्याह-न चानेनेति /