________________ तृतीयः परिच्छेदः क्षधोजनकं वाक्यत्वात् ज्योतिष्टोमादिवाक्यवत् / न चाप्रयोजकः / इन्द्रियाणामेवापरोक्षधीहेतुत्वात् / तानि विना तदनुत्पत्तेः / न च परोक्षज्ञानवदपरोक्षज्ञानेऽपि विजातीयानेककरणजन्यत्वमविरुद्ध मिति वाच्यम्, अनुगतकरणजन्यत्वे संभवति तदयोगात् परोक्षज्ञाने तदसंभवात् / अन्यथा लिङ्गादप्यपरोक्षज्ञानं स्यात् / किञ्च साक्षात्कारत्वं जातिः। सा च न शाब्दे शाब्दत्वेन साङ्कर्यप्रसङ्गात् / अत एवार्थजन्यत्वं ज्ञानस्य साक्षात्त्वं, न जातिः नियतव्यञ्जकाभावात् / तच्च शाब्देऽपि ब्रह्मज्ञानेऽविरुद्धम, न च शाब्दज्ञानस्यार्थजन्यत्वे प्रमाणाभावः / ब्रह्मणः सर्वकारणत्वादिति निरस्तम् / अर्थजन्यत्वमात्रस्यानुमित्यादावतिव्याप्तेः। विषयत्वेन तज्जन्यत्वं तु ज्ञाने तन्निरूपकसाक्षात्त्वजाति विना दुर्ग्रहम् / ब्रह्मणो विषयत्वेन तद्धतुत्वे प्रमाणाभावाच्च / न च व्यञ्जकाभावः। इन्द्रियजन्यत्वस्य व्यञ्जकत्वात् / न च ज्ञाने ज्ञानाकरणकत्वमेव प्रत्यक्षत्वम्, तच्च न जातिमपेक्षते ब्रह्मज्ञानं च शब्दकरणकमिति वाच्यम्, शाब्दज्ञाने शब्दज्ञानस्यैव करणत्वात् / अन्यथा स्मृतवाक्यादर्थज्ञानानुत्पादप्रसङ्गात् / विपक्षे बाधकाभावादप्रयोजको हेतुरित्याशङ्कय अकारणकार्योत्पत्तेरेव बाधकत्वात्, मैवमित्याह-न चेति / ननु परोक्षज्ञाने लिङ्गादीनि शब्दश्च यथा हेतुः, एवमपरोक्षज्ञाने इन्द्रियं शब्दश्च हेतुः, किं न स्यादित्याशक्य वैषम्येण परिहरति-न चेत्यादिना / अपरोक्षज्ञानस्याप्यननुगतकरणजन्यत्वेऽतिप्रसङ्गमाह-अन्यथेति / जातिसाङ्कर्यप्रसङ्गादपि न शाब्दज्ञाने साक्षात्त्वमित्याह -किञ्चति / साक्षात्त्वं न जातिय॑ञ्जकाभावात्, किन्तु अर्थजन्यत्वादिरूपोपाधिरेव / तस्य च सायं न दोष इति चोद्यं वक्ष्यमाणया विधया निरस्तमित्याह-अत एवेति / किमर्थमात्रजन्यत्वं साक्षात्त्वं विषयत्वेन तज्जन्यत्वं वा ? आये देहः स्वव्यतिरिक्तद्रष्टकः दृश्यत्वादित्यनुमितेरात्मोपादानकत्वेनार्थजन्यत्वात् तत्रातिव्याप्तिरित्याहअर्थजन्यत्वेति / द्वितीये जन्यतावच्छेदकतया जातिरभ्युपेया / इतरथा विषयत्वेनार्थजन्यत्वायोगादित्याह-विषयत्वेनेति / साक्षात्वस्यैतदात्मकत्वेऽपि ब्रह्मविषयशाब्दज्ञाने नतत्सिद्धिरित्यभिप्रेत्याह-ब्रह्मण इति। व्यञ्जकाभावान्न जातित्वमित्युक्तमपवदति-इन्द्रियजन्यत्वस्येति इन्द्रियत्वेनेन्द्रियजन्यत्वस्येत्यर्थः / ज्ञानाकरणकज्ञानत्वमेव साक्षात्त्वमत्र न पूर्वोक्तदोष इत्याशङ्कामपवदति-न चेति / अस्य तावत् साक्षात्वरूपत्वमङ्गीकृत्य शाब्दज्ञानेऽसंभवमाह-शाब्देति / स्मृतवाक्यादिति / वाक्यस्मरणादित्यर्थः /