________________ 234 सटीकाद्वैतदीपिकायाम् मिति चेत् ? न, तस्यापि मूलप्रमाणापेक्षया सामान्यतो विशेषनो वोपनिषदनुसन्धानं विना प्रमाणविरहकृतासत्वशङ्कायाः ततोऽनिवृत्तेः। तस्मादौपनिषदमेव ब्रह्मेति। औपनिषदत्वे अविषयत्वव्याघातस्य परिहारः नन्वविषयः कथं विषयःस्यात् / तदभावे वा कथमुपनिषदेकगम्यत्वात् न हि तज्जन्यज्ञानाविषयः तद्गम्य इति / न, स्वप्रकाशचिद्रूपब्रह्मणः चैतन्याविषयस्वेऽपि वेदान्तजन्यवृत्तिविषयत्वात् / औपनिषदं च ब्रह्म यथोपनिषत्तात्पर्य वक्ष्यमाणस्वरूपमेव सिद्धयति, ननु परपरिकल्पिताष्टगुणकमनन्तगुणकं वेति / एतेन ध्यानपरिपाकसहकृतमनः प्रसूतसाक्षात्कारविषयत्वात् ब्रह्म नौपनिषदमिति प्रत्युक्तम् / तथापि प्रमाणविरहप्रयुक्ताया असत्त्वशङ्कायाः तत एव निवृत्तेः वस्तुतस्त्विदमेवायुक्तम्; उपनिषद्भिरेव ब्रह्मसाक्षात्कारोदयादित्याचार्याः / शाब्दापरोक्षवादः, तत्र पूर्वपक्ष; ___ स्यादेतत् वेदान्तानां कथमपरोक्षधीहेतुत्वम् / तत्र प्रमाणाभावात् / न चौपनिषदश्रुतिरेव मानं तस्या अन्यथापि प्रामाण्यात्, तत्त्वमस्यादिवाक्यं नापरोयोगादुपनिषदतिरिक्तमानस्य ब्रह्मागोचरतया तन्मूलत्वायोगादेतदर्थप्रतिपादकोपनिषद्वावयमेतस्य मूलमिति सामान्यतः तत्त्वमस्यादिवाक्यमस्य' मूलमिति विशेषतो वा तदननुसंधाने पौरुषेयवाक्यमप्रामाण्यशङ्काकलङ्कितम्, न तदर्थं बोधयति,उपनिषदनुसन्धाने च तत एव तदर्थेऽसत्वशंकानिवृत्तौ पौरुषेयवाक्यं तत्रानुवादकमात्रमित्यभिप्रेत्याहन तस्यापीति / स्वप्रकाशस्य ब्रह्मण उपनिषद्गम्यत्वमप्ययुक्तमिति शङ्कते–नन्विति / चैतन्याविषयत्वरूपस्वप्रकाशत्वस्योपनिषज्जनितजडवृत्तिविषयत्वेनाविरोधात्, ब्रह्मोपनिषद्गम्यम्। तथा चोक्तम्- “फलव्याप्यत्वमेवास्य शास्त्रकृद्धिनिवारितम् / ब्रह्मणोऽज्ञाननाशार्थं वृत्तिव्याप्यत्वमिष्यते // " इति / ततो नोक्तदोष इति परिहरति-न स्वप्रकाशेति / ब्रह्मण औपनिषदत्वनिरूपणफलमाह-औपनिषदं चेति / वाचस्पतिमते ब्रह्मणो मानसप्रत्यक्षविषयत्वात् कथं तत्त्वमित्यत आह--एतेनेति / ब्रह्मणि मानसप्रत्यक्षमङ्गीकृत्य तस्यापि श्रुतिजनितब्रह्मनिश्चयाधीनध्यानसापेक्षत्वेन पौरुषेयवाक्यवत् श्रुत्युपजीवित्वात् प्रथमश्रवृत्तस्यैव तत्र मानत्वमित्याहतथापीति / अङ्गीकारं परित्यजति-वस्तुत इति / उपनिषदां ब्रह्मसाक्षात्कारहेतुत्वमाक्षिपति-स्यादेतदिति / औपनिषदमिति श्रुत्योपनिषदवगम्यतोच्यते तच्चोपनिषज्जन्यसाक्षात्कारविषयत्वमेवेत्यत आह-न चेति / अन्यथेति / धर्मस्य चोदनावाच्यत्ववदुपनिषज्जनितपरोक्षज्ञानविषयत्वेनापि तदुपपत्तेरित्यर्थः / वैपरीत्ये च मानमस्तीत्याह- तल्वमसीति /